________________
अभिसमयालधारालोकः ।
२५५
न संक्षिपति न विक्षिपतीति।।
“प्रसिङ्घमात्रस्य हि याऽयथार्थता
तदर्थसंबोधफलं हि शसनम् ।” इति भावः। न बलौकरोति। अपूर्वसमारोपात्। न दुर्बलौकरोति विद्यमानानुपवादात्। पृथग्जनव्यवस्थायां विपर्यासबलादल्पौयसौ सर्वज्ञता मुक्त्यवस्थायां मातुः सामर्थ्येन विपर्यासापगमान्महतो जाता। तत्कथमेवं वक्ष्यत इति । तत्कस्य हेतोरित्याशवयाह । असंक्षिप्ता होत्यादि। एतदक्तम् । “विपर्यासापगमे मातुः सामर्थस्य स्थितत्वेन यस्मात् सर्वज्ञताऽसंक्षिप्ता विक्षिप्ता तस्मान्न महतौ नाल्पोक्रियत" इति। तचाप्यभिनिवेशो बन्धनमित्याह। सचेदेवमित्यादि। किम्पुनरेवं सञ्जानान इति। वक्ष्यमाणोपलम्भं प्रतिपद्यमानः किं पुनः प्रज्ञापारमितायाञ्चरत्यपि तु महोपलम्भत्वान्नैवेत्यर्थः । ननूपलम्भस्य को दोषो येन तत् सद्भावान्न चरतौति। तत्कस्य हेतोरित्याशङ्याह । न ह्येष इत्यादि। एतदक्तम्। “यस्मादेष प्रज्ञापारमितायाः सदृशः स्यन्दो निष्यन्दस्तदनुरूपं फलं सत्त्वनिर्वाणोपलम्भो न भवति । तस्मादपलम्भभावान्न चरतौ"ति। कथं पुनरेतदिति । तत्कस्य हेतोरित्याशङ्याह । सत्त्वास्वभावेत्यादि। सत्त्वानामस्वभाव एव जातिः प्रकृतिर्यस्या इति सा तथोक्ता । एवं मन्यते सत्त्वानुत्पादप्रकृतिकाया मातुः कथं सत्त्वोपलम्भो निष्यन्दफलमिति। सत्त्वानुत्पादरूपतार्थमेवाह । सत्त्वास्वभावतयेत्यादि। तत्रास्वभावता विविक्तताऽचिन्त्यता यथाक्रमं कल्पितादेर्वेदितव्या । सत्त्वा