________________
२५४
सप्तमपरिवर्तः ।
न यथोपलम्भ इत्यादि। तत्रोपलम्भो बाह्यार्थोपलम्भः । नाम चत्वारोऽरूपिणः स्कन्धाः। अभिसंस्कारो मायोपममेवेदं तत्त्वमित्यादिचित्ताभोगः। प्रकारान्तरव्यवच्छेदेनान्यथार्पणमित्याह । कथं तीत्यादि (p. 174, 1)। यथा कौशिक नार्पयति तथार्पयतीति । येन प्रकारेण मायोपमतया कश्चिदभिनिवेशं विपर्यासं नार्पयति तथा सर्वज्ञतामर्पयतीत्यर्थः। न किञ्चिद्धर्ममुत्पादयतीति वैयवदानिकं न किञ्चिद्धर्म निरोधयतौति सांक्लेशिकम्। प्रत्युपस्थितेत्यनुत्पादाय। अनुपस्थितेत्यनिरोधायेति योज्यम् । एवमप्यभिनिवेशो बन्धनमित्याह । सचेदेवमित्यादि। प्रयोगदर्शनभावनाविशेषमार्गेषु यथाक्रम दूरीकरिष्यति रित्तौकरिष्यति तुच्छोकरिष्यति न करिष्यतीति पदचतुष्टयं योज्यम् । प्रकारान्तरेणापि दूरीकरणादिकमाह। अस्त्येष इत्यादिना। भवत्येष रूपाद्यभिसंबोधपर्याय इत्यर्थः। ननु “धर्मतया रूपाद्येव प्रज्ञापारमिते"ति न्यायात् कथं रूपाद्यवगमेन मातुर्दुरीकरणादिकमिति । तत्कस्य हेतोरित्याशङ्कयाह । प्रज्ञापारमितायां होत्यादि। एतदुक्तम् । “मायोपमतया यस्माद्रपाद्येव जिनजननीत्येकस्वभावत्वेन न्यायात् परिदीपितायां प्रज्ञापारमितायां पृथग्रूपाद्यवगमो विपर्यासस्तस्माद्रूपाद्यवगमेन मातुर्दूरीकणादिकमि"ति। महार्थतामाह। महापारमितेयमित्यादिना। बुद्धमहार्थसाधनान्महापारमिता। तत्र न महत्करोति। अधिकानुत्पादनात्। नाल्पीकरोति (p. 175, 3) व्यवस्थितानपकर्षणात्। तदेव यथायोगं कथयति।