________________
व्यभिसमयालङ्कारालोकः ।
२५३
मित्यादि । तच दानं धर्मामिषाभयभेदात्त्रिविधम् । तथा शौलमकुशलनिवृत्तिकुशलप्रवृत्तिसत्त्वार्थक्रियारूपेण त्रिविधम् । तथा क्षान्तिरपि धर्मनिध्यानदुःखाधिवासनपरापकारमर्षणात्मिका चिविधा । तथा वौर्यमपि सन्नाहकुशलसत्त्वार्थप्रयोगभेदात्त्रिविधम् । तथा ध्यानं गुणसत्त्वार्थक्लेशप्रतिपक्षसुखाभिनिर्हारात्पूर्ववत्त्रिविधमिति । जात्यन्ध
उत्पद्यमानमेव संवृतिपरमार्थसत्य सकल
भूतमिति । सत्त्वार्थालम्बनभेदात्त्रिविधप्रज्ञाचक्षुषा विहौनम् । कुतः पुनरिति । कस्मात्पुनर्नै वेत्यर्थः । पारमितानामधेयमेव कथयति। पारमिताशब्दमिति । श्रासाञ्चक्षुः प्रतिलम्भ इति (p. 173, 1)। दानादिपारमितानां धर्मताचक्षुः समन्वागमः । सर्वधर्मानभिसंस्कृतिं प्रतिपादयितुमाह । कथं भगवन् बोधिसत्त्वनेत्यादि । परिहरन्नाह । रूपस्येत्यादि । मायोपमतया रूपादेरधिगमो मातुरभिनिर्हार इत्यर्थः । उपसंहरन्नाह । एवमनभिसंस्कारेणेत्यादि । तथतारूपत्वात् सर्वधर्मविशेषानुत्पादनेनाधिगमो प्रयोगोऽनभिसंस्कारस्तेन स्कन्धानामधिगम इति यावत् । क्वचिदनभिनिर्धारेणेति पाठस्तचाप्ययमेवार्थो ग्राह्यः । सर्वधर्मानुपलम्भेनाभिसमयार्पणार्थमाह । एवमभिनिर्हृतेत्यादि । न कश्चिद्धर्ममर्पयतौति । यथोपलम्भादिविपर्यासस्तथा न कश्चिदधिगम - धर्मं योगिसन्ताने समुत्पादयति तदा प्रज्ञापारमितेति संख्यां गच्छत्यविपर्यस्तत्वादिति मतिः । सर्वज्ञतायास्त्वर्पणं युक्तमन्यथा निरर्थिकैव प्रज्ञापारमितेत्यभिप्रायवानाह । किमियम्भगवन्नित्यादि । विपर्यासद्वारेण नार्पयतीत्याह ।