________________
२५२
सप्तमपरिवर्तः।
T
त्येतक्रियापदमेकैकस्मिन् सत्ये विष्वपि योज्यम् । अतः प्रत्येकञ्चतुर्णामार्यसत्यानां चिपरिवर्तनाविपरिवर्तम् । चक्षुरित्यादयश्चाकाराश्चत्वारस्त्रिपरिवर्तनात् प्रतिसत्यं त्रय इत्यतो हादशाकारम् । एतावतैव जगदर्यसम्पादनात् परिपूर्ण विपरिवर्तद्वादशाकारं धर्मचक्रमिव धर्मचक्रं यत् प्रथमतो वाराणस्यां भाषितं सूत्रम् । यथा राज्ञश्चकवर्तिनश्चक्ररत्नमग्रेसरं सर्वस्त बलकायस्तदेवानुसरन पश्चाइच्छति, तथा सकलचैलोक्याधिपतेस्तथागतस्य तत् सूत्रमग्रतः कृत्वा सर्वो देशनाधर्मः प्रभवति। अतस्तमातुराधिपत्येन प्रवर्तत इति। भगवती तथोक्ता। श्रेष्ठतां प्रतिपादयितुमाह। कथं भगवानित्यादि (p. 171, 12) । परिहरन्नाह। यथा शारिपुत्रेत्यादि। शास्तरोव प्रतिपत्त्यादिविधानान्नान्यथावबुद्धत्वसम्प्राप्तिरिति श्रेष्ठता कथिता। कुत इति कस्मा तोरित्यर्थः। तदेवाह । किन्निदानेति। एतनिदानेति पुण्यस्कन्धाभिभवहेतुका । अभिनिर्हारश्रेष्ठताधिकारे परिणामनामनस्कारपुण्यस्कन्धहेतुका पृच्छा किमर्थमिति चेदच्यते। यत्र हि नाम सास्त्रवपरिणामनामनस्कारस्येदृशौ श्रेष्ठता यहलादप्रमेयदानादिपुण्यस्कन्धाभिभवो जातस्तत्र सुतरामेवानास्त्रवभावनामार्गस्येति कथनाय परिणामाभिभूतपुण्यस्कन्धहेतुका पृच्छा कृता। अतिशयार्थमेवाह । अपितु खल पुनरित्यादि (p. 172, 12)। सर्वज्ञतामार्गावतारायेति । बुद्धत्वप्रापकमार्गप्रमुदितादिभूमिष्ववतारनिमित्तम्। अपरिणयकमभव्यमिति। सारथिभावरहितमयोग्यम्। दान