________________
पभिसमयालधारालोकः ।
२५१
क्षान्त्या करणौ। धर्मज्ञानेन मार्गावतारणौ। अन्वयज्ञानक्षान्त्या सर्वज्ञता। अन्वयज्ञानेन सर्वतशज्ञेयावरणवासनानुसन्धिप्रहौणतामुपादायानुत्पादिका। सावभावनामार्गेण कुशलधर्मप्रसवनादनिरोधिता। मायोपमत्वादनासवाभिनिर्हारभावनामार्गरूपेण सदावस्थानादनुत्पन्नानिरुवा । अत्यन्तविशुद्धिभावनामार्गस्वभावेनातिशयहितकारिणौत्वात् स्वलक्षणशून्यतामुपादाय माता। स च मृदमध्याधिमात्रभेदात्त्रिविध इति यथाक्रमं दशबलकरी, अनवमर्दनौ, नाथकरौति पदचयमुक्तम् । आनन्तर्यमार्गतया सर्वसंसारप्रहाणात् संसारप्रतिपक्षः । कूटः सामग्री तच तिष्ठतौति हेतुप्रत्ययजन्यो भावस्तथोक्तस्तत्प्रतिषेधादकूटस्थतामुपादाय विमुक्तिमार्गेण सर्वगुणसम्पदभिमुखौभावात् सर्वधर्मस्वभावविदर्शनी, पश्चादेवं समधिगततत्त्वानां यथाशयं त्रियानधर्मदेशनया परिपूर्णविपरिवर्तद्वादशाकारधर्मचक्रप्रवर्तनौत्येवमेषां पदानामर्थनिर्देशो वाच्य इति पूर्वाचार्याः। तच चयः परिवर्ता हादशाकारा यस्मिन् धर्मचक्र इति विग्रहः। तचामी चयः परिवर्ताः। यदुत इदं दुःखमार्यसत्यं तत् खल्वभिज्ञाय परिज्ञेयं परिज्ञातम् । इदं दुःखसमुदय आर्यसत्यं तदभिज्ञाय प्रहातव्यं प्रहोणम् । इदं दुःखनिरोध आर्यसत्यं तदभिज्ञाय साक्षात्कर्तव्यं साक्षात्कृतम् । इदं दःखनिरोधगामिनी प्रतिपदार्यसत्यम् । तत् खल्वभिनाय भावयितव्यं भावितं मयेति भिक्षवः पूर्वमनुश्रुतेषु धर्मेषु योनिशोमनसिकुर्वतः प्रत्यक्षार्थत्वादनाखवा प्रज्ञा चक्षुरुदयादि । निःसंशयत्वाज्ञानं भूतार्थत्वाविद्या विशुद्धत्वादुविरुदयादी