________________
२५०
सप्तमपरिवर्तः।
सासवभावनामार्गानन्तरमनासवो भावनामार्गों वक्तव्यः। स च विविध इति । प्रथममभिनिहरलक्षणं भावनामार्ग वक्तं स्वभावाभिधानादाह। अथ खल्वायुष्मानित्यादि (p. 170, 2)। तथागतज्ञानस्य निष्यादनहेतुत्वासर्वज्ञज्ञानपरिनिष्यत्तिः। सर्वज्ञत्वमिति रूपाद्यविपरीतदर्शनं स्वभाव इत्यर्थः। एवमित्यादिवचनेन लब्धप्रसादातिशयत्वादभिनिर्हारस्य विस्तरेण ज्ञानस्वाभाव्यपरिदीपनार्थमाह। अवभासकरीत्यादि। उष्मगतज्ञानालोकत्वादवभासकरौ। कायवाङ्मनोभिः प्रणामान्नमस्करोमि । यस्मान्नमस्कारार्हत्वान्नमस्करणोया। मूर्धावस्थाप्राप्तत्वेनाश्रवादिभिरसंसर्गादनुपलिप्ता। क्षान्तिस्वभावत्वेनापायसंवर्तनीयकर्मविगमात् सर्वलोकनिरुपलेपा। अग्रधर्मरूपत्वेन लोकोत्तरज्ञानोदयहेतुत्वादालोककरौ। दुःखधर्मज्ञानक्षान्त्या स्वदर्शनप्रहातव्यचैधातुकक्लेशप्रहाणात् सर्ववैधातुकवितिमिरकरौ। धर्मज्ञानेन विमुक्तिसाक्षात्करणात् सर्वकोशदृष्ट्यन्धकारापनेत्री। अन्वयज्ञानक्षान्त्याऽर्यधर्मान्वयावगमादाश्रयणीया। अन्वयज्ञानेन निश्चयावधारणादनकरी। समुदये धर्मज्ञानक्षान्त्यादिभिश्चतुर्भिः क्षणैः पूर्ववद्यापारकरणाद्यथाक्रम बोधिपक्षाणां धर्माणां क्षेमकरी, आलोककरौ, सर्वभयोपद्रवग्रहोणाऽऽलोककरोति पदचतुष्टयं योज्यम् । मांसदिव्यप्रज्ञाबुद्धधर्मचक्षुःपरिग्रहं कृत्वा पूर्ववन्निरोधे धर्मज्ञानक्षान्त्या मार्गदर्शयिची। धर्मज्ञानेन चक्षुरन्षयज्ञानक्षान्त्या मृदमध्याधिमाचविपक्षापगमेनार्यधर्मान्वयावगमाम्मोहतमस्तिमिरविकरणौ। अन्वयज्ञानेन निश्चयावधारणादितिमिरकरणी। मार्गे तथैव धर्मज्ञान