________________
२४६
बभिसमयालधारालोकः । तथैव तत्कस्य हेतोरित्याशय पूर्ववदाह। तथाहि ते बोधिसत्त्वा इत्यादि। तदयं समासार्थः संवृत्युपायेन कुशलमूलान्युपलभ्य प्रमुदितचित्तेन परमार्थतोऽनुपलम्भतयाऽनुमोदनीयानौत्यनुमोदनामनस्कार इति। तथा चोक्तम् ।
उपायानुपलम्भाभ्यां शुभमूलानुमोदना।। अनुमोदे मनस्कारभावनेह विधीयते ॥ २४ ॥ इति
अभिसमयालङ्कारालोकायां प्रज्ञापारमिताव्याख्याया
मनुमोदनापरिणामनापरिवर्तो नाम षष्ठः ॥
32