________________
२४
षष्ठपरिवर्तः।
प्रत्यात्मनि प्रतिभासिते तथा विभागेनैव जगडितविधित्सया तेन द्रष्टा करुणामयेन भगवता कर्मफले प्रोक्त । तस्मादतीन्द्रियमपि सर्व यथादर्शनमेव स्थितमिति भावः । संसारनिर्वाणाप्रतिस्थानादसतानाम्। अनुमोदनाधिकारे प्रसङ्गात् परिणामयामोति। परिणामनामनस्कारः कथितः। मायोपमतया संसरणाभावादसंक्रान्तितो विनाशाभावादविनाशत इति योज्यम्। प्राणातिपातादिविविधकायिककर्माभावात् कायसुचरितम् । मृषावादादिचतुर्विधवाचिककर्मविगमादामचरितम् । अभिध्यादिविविधचैतसिककर्मवियोगान्मनःसुचरितम् । पूर्ववत्तत् कस्य हेतोरित्याशक्य तथैवाभिप्रायेणाह। तथाहि ते बोधिसत्त्वा इत्यादि (p. 165, 5)। पैशुन्यपारुष्यसम्भिन्न प्रलापैरभिधानादाक्रष्टः। दण्डादिभिस्ताडनादभिहतः। हठेन नियमकरणात् परिभाषितः। उन्नतिलक्षणेन मानेन सह वर्तनात् समान इत्येके। समानशब्दः सन्नित्यर्थे वर्तत इति केचित् । तथैव तत्कस्य हेतोरित्याशङ्कयाह । तथा हि त इत्यादि (p. 166, 19)। उत्तप्तवीर्यारम्भप्रदर्शनार्थं स्थानचङ्गमणयोरुपादानात्तिष्ठन्तश्चमाभिरूढा इति दयमुक्तम्। अनभ्युत्साहलक्षणविषादविगमादविषीदन्तः। स्त्यानमिचेनेति (p. 167, 8)। मोहांशिकचित्तकर्मण्यता स्त्यानं दध्याधुपयोगनिमित्तमागम्य मोहांशिकश्चेतसोऽभिसंक्षयो मिडम्। पूर्ववत् तत्कस्य हेतोरित्याशङ्ख्याह। तथा होत्यादि (p. 188, 3) । चत्वारि ध्यानानि समापद्येरनिति। लौकिकानि रूपधातुसंग्रहौतानि चत्वारि ध्यानानि भावयेयुः ।