________________
अभिसमयालधारालोकः ।
२४.
कस्यचित्त क्वचिदभिनिवेश इति तत्प्रतिपक्षार्थं यथोक्तन्यायेन मन्दबुद्धिजनानुग्रहाय हादशप्रकारः प्रभेदः कृतः। तीक्ष्णप्रज्ञानामवज्ञाविनिवृत्त्यर्थं नातिप्रभेदः। तथाचोक्तम्।
विशेषः परिणामस्तु तस्य कारित्रमुत्तमम् । नोपलम्भाकृतिश्चासावविपर्यासलक्षणः ॥ २१ ॥ विविक्तो बुद्धपुण्यौघस्वभावस्मृतिगोचरः। सोपायश्चानिमित्तश्च बुबैरभ्यनुमोदितः ॥ २२ ॥ चैधातुकाप्रपन्नश्च परिणामोऽपरस्त्रिधा।
मृदुमध्याधिमात्रश्च महापुण्योदयात्मकः ॥२३॥ इति। अनुमोदनामनस्कारेण स्वपरपुण्यक्रियासमतां प्रतिलभत इत्यतोऽनन्तरमनुमोदनामनस्कारार्थमाह। अथ खल्वायुष्मन्नित्यादि। कियतेति कियन्मात्रेण प्रकारेण । न गृहीते न मन्यते। नोपलभत इति तत्त्वतः प्रयोगाद्यवस्थास्विति योज्यम्। न कल्पयति न विकल्पयति न समनुपश्यतीति। यथाक्रममतौतानागतप्रत्युत्पन्नानिति सम्बन्धः। अभूतपरिकल्पप्रभवत्वात्कल्पनाविठयिता वर्तमानखसामान्यरूपविरहाद्यथाक्रममजाता अनिर्जाताः। अतोतादागमनाभावेनानागतिकाः। अनागते गमनाभावेनागतिकाः। धर्मतेति मायोपमरूपता। इयतेति। एतावतानन्तरप्रकारेणेत्यर्थः । यथाविमुक्तिरिति (p. 162, 17) । यथा क्लेशज्ञेयावरणविगतिरनुत्पत्तिलक्षणा। तत्त्वेन सांकशिकधर्मायोगादबवानां वैयवदानिकधर्मविरहादमुक्तानाम् । यस्मादव्याहतदर्शनालोकस्य शस्तुर्यथाविभागशः