________________
२०६
षष्ठपरिवर्तः। यच हि नामेत्यादि । यस्मिन्नुपायकौशले सति यस्मात्तावन्तमप्रमेयादिसंख्यावन्तं नाम प्रसिद्धं पुण्यस्कन्धमभिभवति । तस्मान्महापरिणाम इति वाक्यार्थः । सम्यग्देशनया सञ्चातप्रसादातिशयत्वेन पूजापूर्वकं प्रशंसार्थमाह । अथ खल चायस्त्रिंशानामित्यादि। पुरतः समन्ताच्च यथाक्रमं प्रकरक्षेपादभ्यवाकिरन्नभिप्राकिरन्नित्यर्थभेदः । एवमन्येभ्य इति। यामादिभ्यः। एवमेवेति बायस्त्रिशंकायिकानामिव महापरिणामोऽयमित्यादिशब्दमुदीरयन्ति । पुनः पुनरुच्चारणाहोषमुदीरयन्ति। एवमेव पेयालेन कर्तव्यमिति। एवमेव शब्दमुदौरयन्ति घोषमनुश्रावयन्तौति पदवयं सर्वत्र महापरिणामोऽयमित्यादिहारकान्तेतिदेशनीयमित्यर्थः। चिररात्रसश्चितमिति दीर्घकालापार्जितम् । महाविस्तरसमुदानौतमिति। अनेकप्रयोगयत्नसाध्यम् । पुनरपि परिणामस्य माहान्यार्थमाह । अथ खलु भगवांस्तानित्यादि (p. 159, 13)। ननु प्रयोगादिमहत्त्वेऽपि कथं दानमयः पुण्याभिसंस्कारः स्वल्पप्रयो। दिजनितपरिणामपुण्यक्रियावस्तुनो यावदुपनिषदमपि न क्षमत इति। तत्कस्य हेतोरित्याशङ्याह (p. 161, 8)। तथा हि ते बोधिसत्त्वा इत्यादि। प्रमाणव्याहतत्वेनोपलम्भस्य विपर्यस्तत्वादिति मतिः। अनुमोदनापूर्वकमपि सर्वमेवाधिमुक्तिमनस्कारेणोपार्जितं कुशलमूलं सर्वधर्मानुपलभभावनया सर्वसत्त्वार्थमनुत्तरबोधौ मायापुरुषेणेव परिणामयितव्यमित्येक एव सर्वसत्त्वानां त्रियाननिर्याणमार्गोपदेशहेतुभावव्यापारयुक्तः परिणामनामनस्कारः ।