________________
काभिसमयालङ्कारालोकः ।
२४५
दानमुपलम्भसञ्ज्ञिनो दद्युरिति यावत् । तान् सर्वसत्त्वा - नित्यादि । तानन्यान् यथोक्तलोकधातुस्थितान् सर्वसत्वानेकैकं परिकल्प्य कृत्वा पुनस्तानेव सर्वबोधिसत्त्वानेकैको बोधिसत्त्वस्तावतः कल्पानुपतिष्ठेदिति वाक्यार्थः । क्रमेणेत्यभिप्रायात् पूर्वहारकादस्य विशेषः । अनेन पर्यायेण दानं दद्यादिति । यथा गङ्गानदौवालुकोपमान् कल्पानेकं बोधिसत्त्वमेको बोधिसत्त्वः समुपतिष्ठेदेवं स एवैको बोधिसत्त्वोऽनेन गङ्गानदौवालुकोपमकल्पावस्थानक्रमेण तेषा - मपरापरनिर्दिष्टस्लोकधातुसङ्गृहीतानां सर्वेषां बोधिसत्त्वानां सुखोपधानार्थं दानं दद्यादेवमनन्तरोक्तक्रमेण सर्वेऽपि ते सम्यक्सम्बोधिसम्प्रस्थिता दानं दद्युः । रूपौ भवेदिति। परमाणुस्वभावरूपस्कन्धः स्यात् । नमायेतेति प्राचुर्यान्न तिष्ठेत् । ननूपलम्भसञ्ज्ञिनां दानमयः पुण्याभिसंस्कारोऽप्रमेयोऽपि कथं यावदुपनिषदमपि न क्षमत इति (p. 158, 7 ) । तत्कस्य हेतोरित्याशङ्क्याह । तथाही - त्यादि । एतदुक्तम् " यस्मात्तेषां सुप्रभूतं दानं दत्तं सदेकत्वादिसंख्यादिरहितमप्यप्रमेयादिसंख्यायोगादप्रमेयं सुबह्नित्यादिपरिसंख्यातं भवति । तस्मात्तद्धेतुकपुण्याभिसंस्कारः परिणामनापुण्यस्कन्धस्याप्रमेयादिसंख्यारहितस्य यावदुपनिषदमपि न क्षमत" इति । भगवदधिष्ठानेन कृतादरतया देवपुत्राः कारित्रमाहुः । यच होत्यादिना । नयत्रयविनेयसत्त्वमार्गोपदेशहेतुभावव्यापारयुक्तत्वेन
जगदर्थ
करणान्महापरिणामः ।
कथमेवमित्यादिशङ्कायामाह ।