________________
२४8
षष्ठपरिवर्तः।
मध्यमावेदयन्नाह। तिष्ठन्तु खलु पुनरित्यादि। यावत् सर्वे प्रत्येकबुवा भवेयुरिति (p. 156, 21)। एतदुक्तं “प्रथमफलस्थमारभ्य यावत् प्रत्येकबुवानां पुण्याभिसंस्कारान्मध्यभूतात्तदनुपलम्मालम्बनमनस्कारेणानुमोदनापूर्वकपरिणामस्याधिकपुण्यत्वान्मध्योपाधिभेदेन मध्यमहापुण्योदयपरिणामनामनस्कार" इति। अधिमाचं वक्तुमाह । तिष्ठन्तु खलु पुनरित्यारभ्य यावत् सर्वेऽप्युपलम्भसञ्जिनः दानं दद्युरिति (p. 157, 7) । गङ्गानदीवालुकोपमेषु त्रिसाहस्त्रमहासाहलेषु लोकधातुषु सम्यक्सम्बोधिप्रस्थितसर्वसत्त्वानां तावद्भिरधिकैर्वा सोपलम्भः सर्वैश्चीवरपिण्डपातादिभिस्तावतः कल्पानुपस्थानकरणपुण्यादधिमात्रभूतात्तदनुपलम्मालम्बनमनस्कारेणानुमोदनापूर्वकपरिणामस्याधिकपुण्यत्वेनाधिमात्रोपाधिभेदादधिमात्रमहापुण्योदयपरिणामनामनस्कार इति समुदायार्थः। अवयवार्थस्वच्यते। सम्पस्थिता इति प्रणिधिप्रस्थानचित्ताभ्यां प्रवत्ता इत्यर्थः। ते सर्व इति। दधुरेतेन पर्यायेणेति वक्ष्यमाणेन सम्बन्धः । तमेव कथयन्नाह। अन्येष्टित्यादि। अन्येष्धिति अपरापरेषुः। उपतिष्ठेदिति । सकृदुपस्थानं कुर्यात् । सर्वसुखोपधानैरिति। स्नानोदर्तनादिभिः, सर्वैः सुखसंस्पर्शविहारैरिति। यथेच्छं चङ्गमणादिविहारैरुपतिष्ठेदिति पूर्वेण सम्बन्धः। एतेन पर्यायेणेति। ते सर्वे सम्यक्सम्बोधिसंग्रस्थिताः सत्त्वा यथोक्तापरापरलोकधातुस्थितसर्वसत्त्वानामेतेन पर्यायेणैकैकसत्त्वक्रमेणोपस्थानात्तच्च