________________
अभिसमयालशारालोकः।
२४३
अतीतादिकालचये प्रतिस्थितत्वादाह। माप्यतीतमित्यादि। ननु कामादिधातावतीतादिकाले चावस्थितस्य चित्तक्षणस्य परिणामात् कथं तत्र न प्रतिस्थित इति । तत्कस्य हेतोरित्याशङ्याह। यध्वधातुकेत्यादि (p. 154, 1)। एतदुक्तम् यध्वधातुकस्य तत्वेनानुत्पादादपर्यापन्नत्वे कथं तत्र स्थितः। परिणाम इति । यचापि धर्म इति बुद्धत्वे धर्मधातुवत् क्षयभावादविनष्टः परिणामः। अपर्यापन्न इत्यभिनिवेशो बन्धनमित्याह । अथ तमित्यादि। उपसंहरन्नाह । तत्र योऽयमित्यादि। प्रश्नमुखेन सम्यगुपदेशकत्वात्। आर्यसुभूतेः साधु साध्विति साधुकारः। अन्यथार्यमैत्रेयेणोपदिष्टत्वात् कथमन्यं प्रति साधुकारः साधुः स्यात् । नन्वविपर्यस्तधर्मदेशनाऽभावे कथं शास्तुकृत्यमिति। तत्कस्य हेतोरित्याशङ्याह। यो ह्ययमित्यादि। एतदक्तम्। “यस्मान्मायोपमतया सर्वोऽयं परिणामो धर्मधातुपरिणामस्तस्मादविपर्यस्त देशनया बुद्धकृत्यं करोषौति। अतोऽनन्तरं महापुण्योदयपरिणामनामनस्कारो वक्तव्यः । स च मृदमध्याधिमात्रभेदेन त्रिविध” इति । मृदमधिकृत्याह। अस्यामेव धर्मतायामित्यादि। यावत् पञ्चानामभिज्ञानां लाभिनो भवेयुरिति (p. 156, 3)। एतदुक्तम् "दशकुशलकर्मपथसे विनः सत्त्वानारभ्य यावत् पञ्चाभिज्ञानां पुण्याभिसंस्कारान्मृदभूतात्तदनुपलम्भालम्बनमनस्कारेणानुमोदनापूर्वकपरिणामस्याधिकपुण्यत्वेन मृदूपाधिभेदान्मृदमहापुण्योदयपरिणामनामनस्कार” इति ।