SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ २४२ षष्ठपरिवर्तः। हेतोरित्याशङ्याह। सविषत्वादपलम्भस्येति (p. 152, 22) । प्रमाणव्याहतत्वेनेति मतिः। नैवं शिक्षितव्यमित्युपलम्भयोगेन शिक्षा न कार्या (p. 153, 1)। बुड्डानुज्ञातपरिणामनामनस्कारं निर्दिष्टुमाह। कथं पुनरनेन शिक्षितव्यमित्यादि। अनभ्याख्यातुकामेनेति तथागतनिर्दिष्टार्थानुष्ठानेन फलप्राप्तिदर्शनादतिरस्कर्तुकामेन। बुद्धज्ञानेन प्रज्ञाचक्षुषा सर्वधर्माविकल्पनविषयेण जानन्ति। बुडचक्षुषा सर्वाकारसर्वधर्माभिसम्बोधविषयेण पश्यन्तीति योज्यम् । यया धर्मतयेति मायोपमतया। अभ्यनुजानन्तौति। यथा सर्वमार्गानुपलम्मालम्बनेन मनस्कारेण परिणाम्यमानस्य वहस्तं प्रयच्छन्ति । अनपराध इति । निर्दोषत्वादकृतापराधः। अपगतोपलम्मविषयत्वानिर्विषः परिणामः, रूपकायधर्मकायप्राप्तिहेतुत्वाद्यथाक्रमं महापरिणामो धर्मधातुपरिणामः। प्रयोगपृष्ठावस्थापुष्टत्वात् परिपूर्णः । मौलावस्थायां सम्यक् परिपूर्णत्वात् सुपरिपूर्णः । चैधातुकापर्यापन्नपरिणामनामनस्कारं प्रतिपादयन्नाह। पुनरपरं बोधिसत्त्वयानिकेनेत्यादि। अपर्यापन्नमिति कामादिधातुचयस्यानुपलम्भादप्रतिष्ठितम् । तत्र नरकप्रेततिर्यञ्चो मनुष्याः षड् दिवौकसः । कामधातुः स नरकद्दौपभेदेन विंशतिः ॥ जवं सप्तदशस्थानो रूपधातुः पृथक् पृथक् । ध्यानं विभूमिकं तत्र चतुर्थं त्वष्टभूमिकम् ॥ आरूप्यधातुरस्थान उपपत्त्या चतुर्विधः । ध्यानादूर्ध्वं ससंस्थानो रूपे सद्भावतोऽथवा ॥
SR No.010445
Book TitlePrajnaparamitas 01
Original Sutra AuthorN/A
AuthorGieuseppe Tucci
PublisherOriental Research Institute Vadodra
Publication Year1932
Total Pages677
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy