________________
बभिसमयालशारालोकः।
२४९
सौ सन् विकल्पप्रतिभासितमर्थमुपलभमनुपलम्मे बुद्धत्वे परिणामयेदिति वाक्यार्थः । नन्वर्थोपलम्भाभावात् कथमेवं परिणामितम्। नाभ्यनुजानन्तीति। तत्कस्य हेतोरित्याशङ्याह। एष एव हि तस्येत्यादि। एतदुक्तम् “यस्मात् पुद्गलः शून्यताद्याकारतया परिनिर्वाणमनुत्तरां बोधिं निमित्तौकरोति विकल्पयति च स्वविकल्पप्रतिभासेनाकारेण तथैव चोपलभते। तस्मादध्यारोपितार्थरूपेण ग्रहणादविचिकित्स्यत्वेन तस्यैवं महानुपलम्भ इति। ननूपलम्भस्य मनःप्रसादादिकारित्वात् कथं तत्सज्जिनः परिणामना न महार्थकरौ"ति । तत्कस्य हेतोरित्याशङ्याह । सविष इत्यादि। अभिमतधर्मतत्त्वाधिगमभ्रंशार्थेन मरणहेतुत्वात् सविषः। सर्वसंसारदरुवरदःखहेतुत्वेन सशल्यः ।
आदिकर्मिकाणां मनःप्रसादादिकारित्वेऽपि प्रमाणव्याहतत्वादिति शेषः । एतदेव स्पष्टयन्नाह । तद्यथापि नामे त्यादि। तत्र परिज्ञातविषदोषरूपत्वात् पण्डिताः। विषस्वरूपाज्ञानादालाः स्वरूपावगमेऽप्यनवधारितमारणशक्तिवाहुःप्रज्ञाः । सुखोत्पादकत्वात् सुखकरं पर्यवसाने दुःखफलत्वादुःखविपाकम् । एक इत्युपलम्भसंजिनः श्रुतचिन्ताभावनावस्थासु मिथ्यावरणाद्यथाक्रमं दुर्यहौतेनेत्यादिपदचयम् । मायोपमार्थस्य सविपर्यासविनिवृत्तिप्रयोजनानवगमात् सुभाषितस्यार्थमजानानाः। मायोपमपदार्थस्वरूपावधारणशक्तिवैकल्याद्यथाभूतमर्थमनवबुध्यमानाः । नन्वादिकर्मिकस्य मनःप्रसादादिकारित्वात् कथमुपलम्भः सदोषो येन तत्संज्ञिनः परिणामो नास्तीति । तत्कस्य