________________
घष्ठपरिवर्तः ।
भिन्नत्वादपायकौशलशिक्षाया मातुः श्रवणादिना कः सम्बन्ध इति। तत्कस्य हेतोरित्याशङ्याह। नहि प्रज्ञापारमितामित्यादि (p. 151, 1)। एतदुक्तम् “दानादौनामनुपलम्भेन या प्रज्ञापारमिताया परिणामना क्रिया सैव यस्मादपायकौशल शिक्षा तस्मान्मातुः श्रवणादिकं विना न भवती"ति। एतदेव स्पष्टयन्नाह। तत्र य एवं वदेत्यादि। स्यादचनीय इति वक्तव्यो भवेदित्यर्थः। ननु भिन्नत्वात्परिणामस्य प्रज्ञापारमितया सह कः सम्बन्ध । इति तत्कस्य हेतोरित्याशङ्याह । निरुडा होत्यादि। पूर्वकुशलमूलापार्जकचित्तचैतसिकधर्माणां तहासनानाञ्च तत्त्वतोऽनुत्पादान्निरुवा हि त आत्मभावा निरुद्धा हि ते संस्कारा इति दयमुक्तम्। प्रयोगमौलपृष्ठावस्थायामुपलभाभावेन त एव यथाक्रम शान्ता विविक्ता विरहिता उपलब्धित इति योज्यम्। अथवा तदाकारेण निराकारेणान्याकारेण च ज्ञानेन ग्रहीतुमशक्यत्वाद्यथाक्रमं वाच्यम्। अयमभिप्रायः। परिणाम्यमानधर्माणां तबासनानाञ्च तत्त्वतोऽनुत्पादात् परिणामकज्ञानपथातीतत्वेन यस्मात् परिणामानुपपत्तिस्तस्मादिकल्पेनाध्यारोप्य प्रज्ञापारमिताबलेन मायोपमधर्मताधिमोक्षादविपर्यस्तः सम्यगुपायकौशलपरिणामः शक्यते कर्तुमिति। अनिमित्तपरिणामनमनस्कारं वक्तुमाह। अपि तु खल पुनः स पुगल इत्यादि। शून्यताघेकरूपेण ग्रहणानिमित्तौकृत्य पुनः पुनर्मनसिकरणादिकल्प्य च यथाभूतमपगतभावाभावादिरूपं तत्त्वं पश्चास्वविकल्पप्रतिभासेऽनर्थे यथाभूतेऽर्थाध्यवसायेन यथाभूतसजी पारमार्थिक