________________
व्यभिसमयालङ्कारालोकः ।
२३८
तथापि वस्तुत्वापरिज्ञानान्न समन्वाहरति । एवं स्मृति - वैकल्यादनवबोधाद्दा देवदत्तादिर्न मनसिकरोति कवितथापि पूर्ववन्न समन्वा हरति । ततश्च तथैव विपर्यस्त - त्वान्न परिणामयतीति वाक्यार्थः । यदि निमित्ताकारेणानिमित्ताकारेण च न परिणामस्तदा कथं तर्हि कियता - मित्याह । अथ तन्निमित्तमित्यादि । एतदुक्तम् “ निमौलिताक्षजात्यन्धादीनामिव प्रत्यय वैकल्येनामनसिकार - माचान्न भावादिविपर्यासवासना प्रहीयते । अससिमापत्त्यादिव्युत्थितस्येव योगिनः पुनरपि भावाद्यभिनिवेशमूलस्य रागादिक्लेशगणस्योत्पत्तेः । न चापि विना विप र्यासप्रहाणेन पूर्वोपलब्धेषु रूपादिषु पटुतरतदनुभवाहितमनसिकारपरिवर्जनं शक्यं कर्तुम् । अस्य परिवर्जने दाहापरिवर्जनवत् । तथामौ रूपादिमिथ्याविकल्पा न कण्टकादिवदुत्कौल्य चेतसोऽपनेतव्याः । किन्तर्हि भावादिवस्तित्वविपर्यासबौजापगमात् । अतस्तदविनिवृत्तावप्रहौणतिमिरदोषस्येव पुंसोऽलोकरूपाद्यभिनिवेशः प्रवर्त - मानः केन वार्येत । तच्च विपर्यासबीजं योगिनः प्रज्ञाचक्षुषा निरूपयतः सर्वधर्माणां सम्यग्ज्ञानालेाकेनादर्शनान्न भवति । एवं सत्युत्खातमूला इव तरवो निर्मूलतया दुर्विकल्पाश्चेतसि तत्त्वतो न पुनर्विरोहन्तौत्येवं तन्निमित्तं तथागतकुशलमूलपरिणामकश्च चित्तं मायोपमतया समन्वाहरति । तद्रूपेणैव तत्त्वतोऽनभिनिवेशान्न च निमित्तीकरोति" इति । उपायकौशलपरिणामनामनस्कारं कथयन्नाह । एवमच बोधिसत्त्वेनेत्यादि । उपायकौशलमिति । दानादौनामनुष्ठानेऽप्यनुपलम्भः । ननु