________________
२३८
षष्ठपरिवर्तः । विपर्यास इत्याह । स चेदेवमित्यादि (p. 150, 1)। यदि शान्ता इत्याद्येवंरूपेण भावतो न सञ्जानौते तदा सम्यक् प्रवृत्तत्वादेवमियं तस्य प्रज्ञापारमितेति योज्यम् । बुद्धकुशलमूलस्वभावानुस्मृतिपरिणामनामनस्कारं निर्दिशनाह। यदपि तत्तेषां बुद्दानामित्यादि। यादृश एव परिणाम इति मायोपमः। तदपौति परिणामकञ्चित्तम् । मंत्र्त्याऽविचारैकरम्यपूर्वपूर्वस्वकारणमाश्रित्य कुशलमूलस्येवोत्यादात्तज्जातिकम्। स्वसामान्यलक्षणरूपेण यथाक्रममर्थक्रियासु योग्यत्वादयोग्यत्वाच्च तल्लक्षणं तनिकायम् । धर्मधातुस्वभावत्वात्तस्वभावम्। सचेदेवं संजानौत इति। निमित्तत इति शेषः । बुद्धिपूर्वकत्वाद् व्यापाराणां कथं प्रतिपद्यमानो न परिणामयतौति । तत्कस्य हेतोरित्याशङ्याह। न हि बुद्धा इत्यादि। निषेध्याभावे निषेधानुपपत्तौ तत्र शून्यत्वादौ तत्त्वाभिनिवेशो विपर्यास इत्यभिप्रायः। प्रकारान्तरमप्याह । यच्चातीतमित्यादि। असप्राप्तमिति । वर्तमानकालतां न प्रतिपन्नम्। स्वभाववैधुर्येणावस्थानानुपपत्तेः स्थितिं नोपलभ्यते । सहकारी कारणतया नैव निमित्तम्। उपादानकारणतया न विषयः। यथोक्तरूपेणालम्बनात् सचेदेवं निमित्तौकरोति। तथैव निषेधाभिनिवेशेन वस्तुतत्त्वापरिज्ञानान्न समन्वाहरति । ततो विपर्यस्तत्वान्न परिणामयतीति । अनिमित्ताकारेण तर्हि परिणामनायां काष्ठादेरपि प्राप्नोतीत्याशङ्कयाह। अथ स्मृतिवैकल्येनेत्यादि। स्मृत्यभावेन शून्यादिकं काष्ठादिभावो न निमित्तौकरोति ।