________________
अभिसमयालदारालोकः ।
२३७ (p. 149, 10)। धर्मः परिणामनामनस्कारः पुण्यक्रियावस्तु धर्मम् । ननु परिणामयामीति शब्दोल्लेखेन परिणामनादिकल्पः समाक्षिप्तस्तस्य च प्रकृत्या स्वप्रतिभासेऽनर्थे
ध्यवसायेन प्रहत्तेर्धान्तत्वात्कथं न सज्ञादिविपर्यास इति। तत्कस्य हेतोरित्याशङ्याह। तथाहि स तामित्यादि। एतदक्तम् “यद्यारोपितस्य तात्त्विकस्य च रूपस्य विभागं न जानौयात्तदा दृश्यविकल्प्यावावेकीकृत्य स्वप्रतिभासेऽनर्थेऽर्थाध्यवसायेन प्रवर्तनाद्धान्तो भवेद्यावता विकल्पविषयमारोपितमारोपितात्मना ऽलौकरूपेण निश्चिन्वन् संस्त्या स्वलक्षणञ्च वस्तु निर्विकल्पकज्ञानगोचरं पृथगेव मायोपमात्मकं मायोपमात्मनावितथरूपेण पश्यन यदा परिणामनां नाभिनिविशते न च परिणाम्यमानं चित्तं परिणामकश्चित्तं जानातौत्यपि प्रतिपद्यते। न च धर्मो धर्म जानातीत्यवगच्छति। तदा कथं विपर्यस्तो नामे"ति। यथोक्तमेवार्थ व्यतिरेकमुखेन स्पष्टयन्नाह । स चेत् पुनरित्यादि। नन्ववबोधमन्तरेण प्रवृत्त्यसम्भवात् कथं जानानो न परिणामयतीति । तत्कस्य हेतोरित्याशङ्याह। तथाहि स तां परिणामनामभिनिविशत इति । प्रमाणबाधितभावरूपां तत्वेनेति शेषः। विविक्तपरिणामनामनस्कारमाह । सचेत् पुनरस्यैवं भवति सोऽपि पुण्याभिसंस्कार इति। पुण्यं कुशलमूलान्यलाभादौनि। तस्याभिसंस्कारः तत्समुत्थापिका क्रियाचेतना। आत्मादिसम्बन्धदोषरहितत्वादिविक्तः । मायोपमतया सर्वोपद्रवप्रशमहेतुत्वेन शान्तः। शान्तत्वादिरूपेणाप्यभिनिवेशो