________________
२३६
षष्ठपरिवर्तः।
त्याह। एवं बोधिसत्त्वेनेत्यादि। उपसंहरन्नाह । यथा तचित्तमित्यादि। इदं तद्वर्तमानं परिणामकश्चित्तमित्यभिनिवेशेन तत्त्वतो यथा तच्चित्तं न सञ्जानौते न प्रतिपद्यते। तथा यदि परिणामयति तदैव सम्यगनुपलम्भहेतुप्रत्तत्वान्न सञ्जाविपर्यास इत्यादि योज्यम्। एतदुक्तम् । "यदि तस्य विकल्पस्याविषयस्य विषयवत्तां गृह्णीयात्तदा भ्रान्तो भवेत् । यावता मायाकारवदसौ तज्ञानमविषयमविषयतयैवावगम्य विकल्पेन परिणामनेऽपि स्वरूपपरिज्ञानात् कथं भ्रान्तो भवती"ति। सामर्थ्यकथितमप्यर्थं स्पष्टयन्नाह । अथ येन चित्तेनेत्यादि।
मायाकारो यथा कश्चिनिर्मिताश्वादिगोचरम् ।
चेतो निर्विषयं वेत्ति तेन भ्रान्तो न जायते ॥ इति न्यायेन परिणाम्यमानचित्तादावपि मायापुरुषस्येव वर्तनान्न विपर्यास इत्याह। स चेत् पुनरित्यादि। यञ्चित्तमिति परिणाम्यमानम् । एवं सञ्जानौत इति । वक्ष्यमाणक्षौणत्वादिना प्रयोगपृष्ठावस्थायां प्रतिपद्यते। एवं समन्वाहरतौति (p. 143, 1)। मौलावस्थायाम्। तस्यापि चित्तस्य सैव धर्मतेति। परिणामकचित्तस्य स्वभावविरहात् सैव क्षौणत्वादिधर्मता। यैरपि धमैरिति वस्त्वादिभिः । येवपि धर्मेधिति सर्वज्ञतादिषु । अमुमेवार्थमनागतादिहारकत्रयभेदेन दर्शयन्नाह। यथातौतानामेवमनागतानामित्यादि। स एव धर्मोऽक्षय इति। धर्मतारूपेण क्षयाभावादक्षयो बुद्धत्वम् । न धर्मो धर्म परिणामयतीति