________________
अभिसमयालदारालोकः ।
२३५
सन्तानापेक्षणात् सामयिकत्वेन च शब्दवृत्तेरेवश्चात्र बोधिसत्त्वेन महासत्त्वेनानुमोद्यानुमोदनासहगतं पुण्यक्रियावस्तु सर्वज्ञतायां परिणामयितव्यमित्यनेन वाक्येनोक्तमार्यमैत्रेयेण कर्मकर्टक्रियादिरूपतया। तत्र च वस्तुभागं परित्यज्य शब्दमात्रमेवं गृहीत्वा बालजनोचासकरो विकल्पो न कार्य इति । किञ्चैवमनुमोद्यानुमोदनासहगतं पुण्यक्रियावस्तु । अनुत्तरायां सम्यक्सम्बोधौ परिणामयामौति वाचं भाषेतेति प्राक् स्ववचनादार्यसुभूतिनापि संतिपक्षे यथोक्त एवाभिप्रायोऽभ्युपगन्तव्य इत्यभिप्रायेणाह। कथञ्चार्यसुभूत इत्यादि। यदि यथोक्ताभिप्रायो न गृह्यते, तदा गत्यन्तराभावात् कथं परिणामयितव्यम् । नैव कथञ्चित्तस्माद्यथोक्त एवाभिप्रायो ग्राह्य इत्यर्थः। तदेव कथयन्नाह। कथञ्चानुमोदनासहगतमित्यादि। परिगृह्णता सुपरिगृहीतं परिणामयता सुपरिणामितं कथं भवतीति योज्यम् । अविपर्यासलक्षणपरिणामनामनस्कारार्थमाह । अथ खल्वायुष्मान् सुभूतिरित्यादि। आरभ्येति विकल्पकेन विज्ञानेनामुखीकृत्य । अधिष्ठानं कृत्वेति । अग्रतो विषयभावेनावस्थाप्य । परिणामयामीति वाचा परिणामनादिकल्पेन परिणामः कृतस्तस्मात् सर्वस्यैव विकल्पस्य प्रकृत्या स्वभावप्रतिभासे ऽनर्थेऽर्थाध्यवसायेन प्रहत्तेन्तित्वमित्यभिप्रायेणाह । कथन्न सञ्जाविपर्यास इत्यादि (p. 142, 11) । परिहारार्थमाह। स चेदार्यसुभूत इत्यादि । तस्मिंश्चित्ते न चित्तसजीभवतीति । परिणामकचित्ते तस्मिन परमार्थतो न चित्ताभिनिवेशोभवति । एवं को गुणो भवती