________________
२३४
षष्ठपरिवर्तः।
णामयति । न च तेनैव चित्तेन तस्यैव परिणामना युक्ता स्वात्मनि कारिचविरोधादिति मतिः। अथ मतमनुमोदनाचित्तानन्तरं विशिष्टचित्तक्षणोत्पादादनुमोदनासहगतं पुण्यक्रियावस्तु यश्चित्तं प्राप्तं तत्पश्चात् परिणामनाचित्तेन परिणामयितव्यमित्ययं तस्य वाक्यस्यार्थ" इति । तथापि परिणामयितव्यमिति पदं नोपपन्नमित्याह । कथं वा शक्यमित्यादि । एवं वाक्यार्थो योजनौयः । प्रथमक्षणभाविनो विज्ञानस्य क्षणिकत्वेन द्वितीये क्षणेऽभावः। तथा द्वितीयक्षणभाविनोऽपि कारणवैकल्यादनुत्पादेन प्रथमक्षणेऽभाव इत्येवं यदा दयोः परिणामनौयपरिणामकयोः प्रथमद्वितीयक्षणभाविनोश्चित्तयोः समवधानसम्भवो नास्ति तत्कथं द्वितीयक्षणभाविना परिणामनाचित्तेन प्रथमक्षणभाविचित्तमनुमोदनासहगतं पुण्यक्रियावस्तु परिणामयितुं शक्यमिति । पूर्वचित्तानुत्पादता तर्हि विद्यमाना परिणाम्यत इति चेत्। आह । न च तच्चित्तस्वभावता शक्या परिणामयितुमिति । नौरूपत्वादिति भावः । भगवदार्यमैत्रेयाधिष्ठानेन शक्रः परिहरन्नाह । मा खल्वित्यादि। अयमभिप्रायः। संस्त्याभ्युपगतभावानामर्थक्रियाकारित्वेन क्षणिकत्वे सति विशिष्टोत्पत्तिक्रियासमावेशं मुला न वै कश्चित् क्रियान्तरसमावेशः सम्भवति। अतो योगिनां विशिष्टानुमोदकचित्तानन्तरं विशिष्टतरमनुमोदनासहगतं पुण्यक्रियावस्तुचित्तमुत्पद्यते। ततोऽप्यनन्तरं तत्कुशलमूलवासनावासितं विशिष्टतमश्चित्तं परिणामनाकारेणोदयमासादयति । प्रतीत्यसमुत्पादधर्मताबलादिति स्थितमेतदस्तुतत्वम् । क्षणेन व्यवहारायोगाहालजनानुरोधेन