________________
अभिसमयालङ्कारालोकः।
२३३
कुशलत्वादिति भावः। न वक्तव्यमेव तर्हि प्राप्तमित्याह। अविनिवर्तनीयस्येत्यादि। यो वा कल्याणमित्रोपस्तब्ध इति पृथग्जनस्यापि कल्याणमित्राधिष्ठितत्वेनोभयसत्यस्वरूपविज्ञानादिति भावः। उपसंहारार्थमाह। एवञ्चेत्यादि (p. 140, 1)। एवमिति संशतिसत्यानतिक्रमेण । पुनरपि संतिपक्षाश्रयेण चोद्यार्थमाह। येनेत्यादि। यदिति। अनुमोदनासहगतं कुशलमूलम् । तच्चित्तमित्यनुमोदकं परिणामनाकाले क्षीणमुपचयविनाशान्निरुद्धं प्रबन्धविनाशेन विगतं प्रकृतिविनाशादिपरिणतं विकारविनाशेन । तत्तस्मात् कतमत्तच्चित्तमनुमोदकं परिणामनाकाले येनानुमोदकचित्तेन परिणामयति। नैव केनचिदित्यर्थः । एवं मन्यते। एवञ्चाच बोधिसत्त्वेन महासत्त्वेनानुमोदनामहगतं पुण्यक्रियावस्तुसर्वज्ञतायां परिणामयितव्यमिति वचनेन पौर्वापर्यप्रतिपादनान्नैकस्मिन् क्षणे दावनुमोदनापरिणामनामनस्कारौ भवत इति प्रतिपादितम् । तस्मात् समानकर्तृत्वे लाप्रत्ययविधानादेकमेव चित्तं पूर्वमनुमोद्य पश्चात् परिणामयतीत्युक्तम्। तच्चायुक्तं यतो नित्यस्य क्रमयोगपद्याभ्यामर्थक्रियाविरोधात् क्षणिकत्वेनानुमोदकं चित्तं परिणामनाक्षणेनास्त्यतस्तेन कथं परिणामयतीति । एवमनुमोद्येति पदमसङ्गतमिति निर्दिश्येदानीमनुमोदनासहगतं पुण्यक्रियावस्त्विति पदमयुक्तमित्यावेदयन्नाह । कतमद्देत्यादि। एतदुक्तम् । “अनुमोदनाकारेणोत्पादादनुमोदकमेव चित्तमनुमोदनासहगतं पुण्यक्रियावस्वच्यते । यतस्तस्मात् कतमदा तच्चित्तमनुमोदनासहगतं पुण्यक्रियावस्तु यश्चित्तं व्यतिरिक्तं कर्मभूतमनुमोदकं चित्तं कर्तृभूतं परि
30