________________
षष्ठपरिवर्तः ।
पक्षान्तरार्थमाह । श्रथापीत्यादि (p. 139, 5 ) । अथापि यथावस्तु यथारम्बणं यथाकारोऽसंविद्यमान इति शेषः । तथा बोधिस्तथाचित्तं किमसंविद्यमानमित्यध्याहार्यम् । एवमित्यभ्युपगमे सत्याह । एवमित्यादि । ग्राह्यग्राहकाश्च सर्वधर्मास्तह्रासनाः सर्वाः सर्वधातवोऽसंविद्यमानाः प्राप्ता इति मतिः । भवत्वेवं को दोष इति चेदाह । यदि चेत्यादि । एवं मन्यते। यदि यथावस्त्वादिकमसंविद्यमानं तथा बोधिचित्तादिकं तदा कतमैर्वस्त्वादिभिः कतमं चित्तादिकं क बोधौ परिणामयति । यावता नैव केनचित् किञ्चित् क्वचित् परिणामयत्यतः सर्वथा परिणामानुपपत्तौ परिणामविपर्यास इति । तत्त्वेन विपर्यस्तोऽप्यनित्यादिविकल्पवत् पारम्पर्येण भूतार्थप्रापकः संवृत्या वस्त्वादेर्विद्यमानत्वेन परिणामनामनस्कार इष्यत स्वातो न किञ्चिदधिकं त्वयोक्तमित्यभिप्रायेणाह । नेदमार्यसुभूत इत्यादि । अथवा तस्मिन् वस्त्वारम्बणादौ पारमार्थिकाभिनिवेशविगमेन संवृत्या मायापुरुषस्येव परिणामनान्न विपर्यस्त परिणाम इति अभिप्रायवानाह । नेदमार्यसुभूत इत्यादि । युक्तियुक्तमपि कथमादिकर्मिकस्य न वक्तव्यमिति । तत्कस्य हेतोरित्याशङ्क्याह । यदपि हि स्यादित्यादि । अधिगम सम्प्रत्ययवैकल्याददृढत्वेन श्रद्धामात्रकं तदेव मृदुमध्याधिमात्रभेदादुक्तम् । प्रेममात्रकमित्यादि पदचयेण । अथवा श्रड्डामात्रकम स्तित्वगुणवत्त्वशक्यत्वेषु यथाक्रममभिसंप्रत्ययः प्रसादोऽभिलाष इत्येवं प्रेममाचकमित्यादि चिधा निर्दिष्टम् । अन्तयेतेति विनश्येत् । संकृतिपरमार्थविभागा
२३२