________________
अभिसमयालङ्कारालोकः ।
इति मतिः । विकल्पविषयस्याध्यारोपितत्वेनालीकत्वात् स्वप्नमायामरौचिवन्नैवोपलभ्यन्ते
प्रत्ययाधीनवृत्तित्वाच्च
तत्त्वत इत्याह । न तानि भदन्त इत्यादि । एवमपि विपर्यस्तपरिणामप्रसङ्ग इत्याह । यदि सोऽमंविद्यमानमित्यादि । स्वलक्षणविषयौकरणादारम्बणौकुर्यात् (p. 139, 1 ) । सामान्यरूपपरिच्छेदान् निमित्तौकुर्यात् । संज्ञाया निमितोहणात्मिकायाः स्वविषयाभावेन विपर्यासोऽतस्मिं तद्रहाान्तिः संज्ञाविपर्यासः । चित्तस्यालम्बनग्राहकविज्ञानस्य तथैव विपर्यासश्चित्तविपर्यासः । दृष्टेरेवाकारपरिच्छेदरूपायाः सन्तौरणात्मिकायाः प्रज्ञायाः पूर्ववद्दिपर्यासो दृष्टिविपर्यासः। न भवेदिति कथं तस्येति पूर्वेण सम्बड्डादपितु भवेदित्यर्थः । तथा चानुपलम्भपरिणामनामनस्कारः संज्ञाविपर्यासादिरूप इति शेषः । तस्मादन्यथा संज्ञादौनां विपर्यासत्वप्रतिपादनेन प्रकृतार्थाविरोधान्न किञ्चिदुक्तं स्यात् । न त्वस्य स्वविषयाभावेन संज्ञादेर्विपर्यासत्वेऽतत्खभावस्यान्यस्य कथं संज्ञाविपर्यासादिरूपतेति । तत्कस्यहेतोरित्याशङ्क्याह । तथाहौत्यादि । रागोपौत्यपिशब्देन द्वेषादिपरिग्रहः । विकल्प्येति । अध्यारोप्य । संकल्प्येति । पुनः पुनरालम्ब्य विपर्यस्तसंज्ञादिप्रभवत्वाद्रागोऽपि संज्ञाविपर्यास इति योज्यम् । एतदुक्तम्। “यस्मादविद्यमानं नित्यत्वादिकमनित्यत्वादिधर्मयुक्ते वस्तुन्यध्यारोप्य तदेव पुनः पुनरालाख्योत्पद्यमानो रागादिविपर्यस्तसंज्ञादिहेतुकत्वेन संज्ञाविपर्यासादिरूपः समुत्पद्यते । तस्मादनुपलम्भपरिणामनामनस्कारस्तथैवोत्पद्यत इति ।
२३१