________________
२३०
षष्ठपरिवर्तः। यावत् । अग्रार्थमेव कथयन्नाह । श्रेष्ठयेत्यादि। व्याख्यातमेतत् । वाचम्भाषतेति। सर्वतथागतशौलादिस्कन्धस्यानुपलम्मालम्बनेन मनस्कारेणानुमोदनासहगतं पुण्यं सर्वसत्त्वार्थमनुत्तरबोधौ परिणामयामीति वचनमुच्चारयेदित्यर्थः। आहारकमिति। उत्पादकं मम सर्वसत्त्वानां वेति शेषः। अनुपलम्भपरिणामनामनस्कारं निर्दिश्येदानौं तब कुचोद्यपरिहारार्थं प्रश्नयन्नाह। तत्र बोधिसत्त्वयानिक इत्यादि। यैर्वस्तुभिः परिणमयतौति । यैस्तथागतत्वादिगोत्रैहेतुभिर्निर्यातयतीत्यर्थः। क्वचिदनुमोदेतेति पाठः। तत्रापि परिणामनामनस्कारस्य प्रक्रान्तत्वात्परिणामयतीत्यर्थों ग्राह्यः। तथा चानन्तरमेव वक्ष्यति । कतमैर्वस्तुभिः परिणामयतीति (p. 139, 8)। यैरारम्बणैचैराकारैरिति । आरम्बणानि शोलस्कन्धाः सर्वधर्मास्तब्रहणप्रकारा एवाकाराः। तच्चित्तमिति ग्राहकविकल्पम् । अपित्विति। अपितुशब्दो निपातः किंशब्दार्थे वर्तते। तथोपलभ्येरन् यथा निमित्तौकरोतीति। वस्त्वादीन्यनिमित्तीकृत्य परिणामयितुमशक्यत्वात्तान्यतीततयाऽविद्यमानान्येवाध्यारोप्य यथोद्भावनासरत्या विषयौक्रियन्ते किं तत्वतस्तथैव समुपलभ्यन्त इत्यर्थः। यधुपलभ्यन्त इति मतम् । तथा च सति ।
प्रमाणव्याहतत्वेन विपर्यासो हि वस्तुनः । उपलम्भो मरीच्यादिज्ञानवत् परिनिश्चितः ॥ तस्मात्तहलतो वृत्तः परिणामविधिर्मतः । आत्मात्मीयविपर्यासप्रवृत्त इव दुर्बलः ॥