________________
अभिसमयालङ्कारालोकः।
२२६
तदेव तमोऽपनयनाद्धर्मोल्काप्रग्रहणम् । सम्यक् प्रतिबोधनाधर्मभेरीसम्प्रताडनम् । विनेयमनःप्रपूरणाद्धर्मशतप्रपूरणम्। पौरोत्वेन धर्मशतप्रव्याहरणम्। दृढसर्वावरणप्रहरणाधर्मशङ्खप्रहरणम् । वर्णत्वेन धर्मदृष्टिप्रवर्षणम् । विष्यष्टत्वेन विज्ञेयत्वेन च धर्मयज्ञयजनम् । मनोजत्वेन सर्वसत्त्वसन्तर्पणम्। श्रवणीयत्वेन यथासुखीकरणात् सम्प्रवारणम्। ये च तत्रेत्यादि। बुद्धधर्मेषु विनयनादिनौताः प्रत्येकबुद्धधर्मेषु शिक्षणाच्छिक्षिताः। श्रावकधर्मेषधिमोक्षादधिमुक्ता इति योज्यम्। स्वबोध्यधिगमं प्रतिनियतगोत्रत्वलाभान्नियतास्तत एव सम्बोधिपरायणाः। शैक्षाणौति । प्रथमफलप्रतिपन्नकादौनां सम्बन्धौनि। अशैक्षाणोति । अर्हताम्। तत्र चैवाचिकादिकर्मणोपसम्पन्नो भिक्षुरेवं भिक्षणी। विशरणपरिग्रहात् पञ्चशिक्षापदपरिग्रहाचोपासकस्तथोपासिकेति विधा भेदः। विशरणपरिगृहौतमुपासकं म आचार्यों धारयतु। तथा विशरणगतं पञ्चशिक्षापदपरिगृहौतमुपासकं म आचार्यों धारयत्विति विनये द्विधा पाठात् । मनोभावनौयानिति (p. 138, 2) । एक-दि-त्रि-पुद्गलान्मनःप्रसादकारिणः । निरवशेषमनवशेषमिति। अनन्तहेतुत्वादप्रमेयफलप्रदत्वाच्च यथाक्रम वाच्यम्। ऐकध्यमित्यादि। अतीततथागतसम्बन्धेन निर्दिष्टत्वादैकध्यमेकप्रकारत्वमभिसंक्षिप्य चेतस्यध्यारोप्याप्रमेयत्वादिरूपेण पिण्डयित्वा गणयित्वा बोधिसत्त्वादि-यावत्तिर्यग्योनिसम्बन्धेन तुलयित्वा प्रमाणीकृत्य वक्ष्यमाणलक्षणयाऽग्रयाऽनुमोदनयाऽनुमोदेत। कर्तुराशयादतिशयश्रद्धातिहर्ष स्वयं तत् सर्वसम्पादनाशयातिशयं कुर्यादिति