________________
षष्ठपरिवर्तः ।
या च हितैषितेति मुदितोपेक्षे । बुद्धगुणा इति । अष्टादशावेणिकबुद्धधर्मादयः । सम्यक्सम्बोधिसुखमिति । क्लेशज्ञेयावरणवासनानुसन्धिप्रहाणफलम् । सर्वधर्मैश्वर्यपारमितेति । सर्वाकारजगदर्थसम्पादनशक्कुता । अनभिभूतः सर्वाभिभूरिति मारतौर्थिकादिभिर तिरस्कृतस्तेषाञ्च कृताभिभवनः । ऋद्ध्यभिसंस्कार इति । ऋद्धिप्रातिहार्यमावर्जनपूर्वकबोधिबौजारोपण हेतुः । यच्चानावरणमित्यादि । क्लेशज्ञेयावरणप्रहाणाद्यथाक्रममनावरणमसङ्गमत स्वाप्रतिहतम् । समाभावादसमम् । समेनासमनैव समत्वादसमसमम् । सर्वान्योपमातिक्रान्तत्वादनुपमम्। अनन्तज्ञानपरिच्छेदायोग्यत्वादपरिमेयं, एवं विशेषणविशिष्टं किं तदित्याह । तथागतयथाभूतज्ञानबलमिति । आदेशनादिप्रातिहार्यकरणसमर्थमेव ज्ञानमव्याहतत्वाद्दलमुक्तम् । यद्दुइज्ञानबलं बलानामिति । श्राश्रवश्यज्ञानमेव बलं बलानां मध्ये प्रकृष्टतरम् । यद्दुद्दज्ञानदर्शनमिति । ज्ञानं सत्यादिसम्बोधिरभिज्ञाः पञ्च दर्शनम् । दशबलपारमितेति । स्थानास्थानज्ञानबलादौनि दश । चतुर्वैशारद्येति । सम्य
सम्बुद्धोऽहमित्यादि प्रतिज्ञाने पर्यनुयोक्तुरभावेन निर्भयताकाराश्चत्वारस्तैश्चतुर्भिर्वैशारद्यैः परमसुपरिपूर्णोऽयमधिगमः सांवृतः । तात्त्विकस्त्वन्य इत्याह । यश्चेत्यादि (p. 137, 1 ) । परमार्थाभिनिर्हारेणेति । मायोपमताभिमुखौकरणेन धर्मचक्रप्रवर्तनमिति । धर्मस्य स्वाधिगमस्य द्योतिकया प्रज्ञापारमितादेशनया चक्रवत्पुनः पुनरामुखौकरणार्थेन प्रवर्तनं विनेयसन्ताने विस्तारीकरणम् ।
२२८