________________
অমিমালী।
२२७
मार्गज्ञता सर्वज्ञता सर्वाकाराभिसम्बोधो मूर्धाभिसम्बोध इति पञ्चभिरभिसमयैः प्रहातव्यवस्तुप्रहाणाद्यथाक्रम छिन्नवम॑नामित्यादि पञ्च पदानि । तैरेव पञ्चभिरभिसमयैः प्राप्तव्यधर्माधिगमयोगाद्यथासंख्यं स्वपहृतभाराणामित्यादि पञ्च पदानि वाच्यानि। एतस्मिन्नन्तर इति मध्ये। अनाश्रवं शौलं समाधिः प्रज्ञा च शौलस्कन्धः समाधिस्कन्धः प्रज्ञास्कन्धः । सर्वावरणप्रहाणं विमुक्तिस्कन्धः। विशिष्टज्ञानसाक्षात्करणं विमुक्तिज्ञानस्कन्धः। सर्वश्चैष श्रावकादिभिः साधारण इत्यसाधारणार्थमाह । यानि चेत्यादि । तत्र द्रव्यतः षट् पारमिताः। नामतस्तु दश भवन्ति । प्रज्ञापारमिताप्रभेदत्वाच्चतसृणां पारमितानाम् । तथाहि लोकोत्तरनिर्विकल्पकं ज्ञानं क्रमेण विवरणप्रहाणकारि प्रज्ञापारमिता। लोकोत्तरमार्गपृष्ठलब्धज्ञानसङ्गहीताः पुनरुपायप्रणिधानबलज्ञानपारमिताः स्युरिति। प्राधान्यादादौ षट् पारमिताः निर्दिश्य परिशिष्टपारमितोपादानार्थमाह। बुद्धगुणसम्पदुपायपारमिता बलपारमितेति सुगमम् । अभिज्ञापारमितेति बौद्धौ सर्वाभिज्ञा षष्ठी वा ग्राह्या। परिज्ञापारमिता ज्ञानपारमिता। कथं प्रकष्टापि सती ज्ञानपारमिता न निर्विकल्पेति चेदच्यते। यस्माज्ञानपारमिता निर्विकल्पज्ञानपृष्ठलब्धं ज्ञानं येन ज्ञानेनाधिगमं परिच्छिद्य स्वयञ्च धर्मसम्भोगं प्रत्यनुभवति परांश्च परिपाचयति। तच्चैतन्निर्विकल्पज्ञाने इयमपि नास्तीत्यतो न निर्विकल्या ज्ञानपारमिता। प्रणिधानपारमितेति ज्ञायत एव। सर्वज्ञज्ञानसम्पदिति । प्रमुदितादिभूमयः ।