________________
२२६
षष्ठपरिवर्तः। त्याह। वरमाख्यायते । प्रवरमाख्यायत इति । उभाभ्यां नान्यत् प्रणीतमिति कथनायोक्तं प्रणीतमाख्यायत इति । ज्येष्ठाग्रतापि हिविधा। उत्तमतया च समाभावात् । अनुत्तमतया चाधिकाभावादिति दर्शनायोक्तम् । उत्तममाख्यायते, अनुत्तममाख्यायत इति । आभ्यां नान्यनिरुत्तममित्याह। निरुत्तममाख्यायत इति । यथोक्तेन च विधिना श्रावकाद्यसाधारणत्वेनासममाख्यायते। असमैबुद्धः समतां प्राप्त हेतुत्वादसमसममाख्यायते। अनुपलम्भाकारपरिणामनामनस्कारं निर्दिदिक्षुराह। एवमुक्त आयुष्मान सुभूतिरित्यादि। दशदिशि लाके सर्वतः सर्वत्रगतयेति। दशसु दिक्षु लोकधातौ सर्वस्मिन् पूर्वादिदिग्व्यास्येत्यर्थः। पूर्वपश्चिमदक्षिणोत्तरासु दिक्षु यथाक्रममप्रमेयासंख्येयापरिमाणाचिन्त्यासु स्थिता लोकधातवो यथासंख्यमप्रमेयाप्रमेयेधित्यादिना निर्दिष्टाः। तथोर्ध्वाधो दिशि स्थिता अनन्तापर्यन्तेधित्यर्थभेदो वाच्यः। अप्रमेयाप्रमेयाणामित्यादि। लौकिकवीतरागाणां शैक्षाणां, प्रत्येकबुहानां बोधिसत्त्वानाञ्च यथाक्रममप्रमेयासंख्येयापरिमाणाचिन्त्यापर्यन्तानां ज्ञानपथातीतत्वेनाप्रमेयादयो वेदितव्याः। छिन्नवर्त्मनामित्यादि (p. 136, 1)। हतारित्वेन क्षौणास्त्रवत्वेन च छिन्नवानः। निक्लेशत्वेन वशीभूतत्वेन च छिन्नवर्त्मनयः। सुविमुक्तचित्तसुविमुक्तप्रज्ञत्वेन छिन्नप्रपञ्चभवनेचौकाः। आजानेयमहानागत्वेन पर्यात्तबाष्याः। कृतकृत्यत्वेन कृतकरणीयत्वेन च मर्दितकण्टकाः। स्वपहृतभाराणामित्यादि व्याख्यातम्। अथवा सर्वाकारज्ञता