________________
অমিমালালা।
२२५
सर्वबुद्धस्तुतस्तोभितप्रशस्तस्याधिमुक्तिमनस्कारस्यानुत्तरसम्यक्सम्बोधौ परिणामनं विधेयमित्यतोऽनन्तरं परिणामनामनस्कारो वक्तव्यः। स च व्यावृत्तिविषयभेदादनेकविध इत्यादौ विशेषपरिणामनामनस्कारं निर्दिशन्नाह। अथ खल मैत्रेय इत्यादि (p. 134, 2)। तत्र मैत्रेयो नाम समाधिस्तल्लाभात्कस्यचित् समाधेमैत्रेयत्वं फलं तदधिगमात्। पूर्वप्रणिहितमैचौफलाभिसमयादीदृश वा गुणास्तेन मैत्रीविमोक्षमुखप्रभावितत्वादर्जिता येनासौ मैत्रेयो जात इति मैत्रेयः। सम्यक्प्रज्ञायोगादोधिसत्त्वः सर्वाकारोपायसम्बन्धान्महासत्त्वः । बोधिसत्त्वमहासत्त्वशब्दयोः प्रज्ञोपायाभिधायितया मोघपाशसूत्रे पाठादिति । अनुमोदनापरिणामनासहगतमिति। अनुमोदनापूर्विका परिणामना तथागतानुत्तरसम्यक्ससम्बोध्यनुपलम्भालम्बनेन मनस्कारेण परिणामनाविशेषपरिणामनामनस्कारस्तया च सहगतमिति समामः । तथाहि परकीयं दानमयादिपुण्यक्रियावस्तु वक्ष्यमाणानुमोदनामनस्कारेणानुमोद्य बोधौ परिणामयितव्यमित्ययमपि प्रकारः सम्भवति । तथा चानन्तरमेव वक्ष्यत्येवमनुमोद्यानुमोदनासहगतं पुण्यक्रियावस्त्वनुत्तरायां सम्यकसम्बोधौ परिणामयामीति वाचं भाषेतेति (p. 138, 9)। तत इति सर्वसत्त्वानां दानमयादिपुण्यक्रियावस्तुनः सकाशादित्यर्थः । अग्रमाख्यायते दिविधाग्रतायोगात् । द्विविधाऽग्रता श्रेष्ठाग्रता चोत्तप्ततया ज्येष्ठाग्रता चाहितीयतयेत्याह। श्रेष्ठमाख्यायते ज्येष्ठमाख्यायत इति । श्रेष्ठाग्रतापि द्विविधा वरतया चोपायकौशलेन प्रवरतया च प्रज्ञापारमितये
29