________________
अभिसमयालधारालोकः।
२२३
समये भगवतैवोक्तमागमे। “मा हैतन्निमित्तं चुन्दस्य कर्मकारपुत्रस्य विप्रतिसारोऽभूत् । स त्वयानन्द चुन्दस्य कर्मकारपुत्रस्य प्रतिविनोदयितव्यः। एवञ्च स वक्तव्यः। यच्च पिण्डपातं परिभुज्य तथागतोत्तरां सम्यक्ससम्बोधिमभिसम्बुद्धः यश्च पिण्डपातं परिभुज्य निरुपधिशेषे निर्वाणधातौ परिनिर्वृतः। दाविमौ पिण्डपातावसमसमफलौ। असमसमविपाकावि"ति। तुल्यफलप्रतिपादनात्तयोः समदक्षिणीयत्वमावेदितमिति । ननु भावनाभ्यासादासन्नौभावे सति कथमववादानुशासनीभ्यामासन्नोभावो निर्दिश्यत इति। तत्कस्य हेतोरित्याशङ्कयाह। एवं ह्येतद्भगवन्नित्यादि। एवं मन्यते । प्रतीत्यसमुत्पादधर्मतैषा यस्मादववादानुशासनौभ्यां विशिष्टक्षणोत्पादादासन्नौभावो भवति । भावनाबलात्तु नितरामेवेति । “बोधिसत्त्वोत्साहदातृणां साधु साध्विति साधुकारदानेन स्तुतस्तोभितप्रशंसार्थमुपसंहरतो"त्यार्यविमुक्तिसेनः। क्षिप्रतरासन्नौभावकथनादत्साहं ददासि। अववादमुखेनानुगृहौधे। अनुशासनौहारेणानुपरिवारयसि। कथमन्यस्योत्साहवर्धनेनान्यस्यानुग्रह इति। तत्कस्य हेतोरित्याङ्याह। अतः प्रसूता होत्यादि (p. 134, 5)। एतदुक्तम् “यस्मादनुत्तरसम्यक्सम्बोधिचित्तोत्साहवर्धनेन निष्यद्यते बोधिसत्त्वानां महासत्त्वानाचगदर्थकारिकाऽनुत्तरसम्यकसम्बोधिस्तस्मादेषामुत्साहवर्धनात् सत्त्वानामनुग्रह" इति। एतदेव व्यतिरेकमुखेन कथयन्नाह । यदि होत्यादि । नाभिसम्बुध्येरन् । अतो न सत्त्वार्थं कुर्यादिति शेषः । अन्वयमुखेन चाह ।