________________
पचमपरिवर्तः ।
कौशिक जम्बूद्दीपकानामित्यादिना । एतद्धारकान्तेऽनुतरायां सम्यक्सम्बोधौ चित्तमुत्पादयेदित्यनन्तरं यश्चान्यः कश्चित् कौशिक कुलपुत्रो वा कुलदुहितेत्यादिग्रन्यः पूर्वोक्त एवानुवर्तनौयः। सप्तमौमाह । तिष्ठतु खलु पुनः कौशिक चातुर्महाद्वीप के लोकधातावित्यादिना तथैवाच हारकान्ते ग्रन्थोऽनुवर्तनौयः । अष्टमौमाह । तिष्ठतु खलु पुनः कौशिक साहस्रचूडिकायां लोकधातावित्यादिना । भूयस्या मात्रयेति (p. 130, 10 ) । अधिकेन प्रकारेणेत्यर्थः । तत्कस्य हेतोरित्यचापि प्रश्नपरिहारार्थः पूर्ववत् वाच्यः । नवमां प्रशंसामात्रामाह । पुनरपरं कौशिक यावन्तो जम्बूद्दौपे सत्त्वास्ते सर्व इत्यादिना । न केवलमभिसम्बुध्यान्येषामर्थकरणात् । क्षिप्राभिज्ञं बोधिसत्त्वमववदतोऽनुशासतश्च बहुतरं पुण्यं किं तर्ह्यनभिसम्बुध्यापौति प्रतिपादयन्नाह । यथा यथा भगवन्नित्यादि (p. 133, 10) । तत्र चौवरं वस्त्रं । पिण्डपातो मण्डकादि । शयनं तूलिकादि । आसनं दण्डासनादि । व्याधिभिरुपहतं ग्लानं प्रत्येति गच्छति । युक्तरूपं भैषज्यं हरीतक्यादि । परिस्कारः खल्लकादि तान् कारान् कृतानिति । चौवरादौन दत्तानित्यर्थः । सन्दृष्टफलदानसामर्थ्यान्महाफलान् करोति । जन्मान्तरे फलदानान्माहानुशंसान् करोतीति पूर्वेण सम्बन्धः । तथागतानां बोधिसत्त्वानाश्च परमदक्षिणौयत्वेन निर्विशिष्टत्वादिति भावः । कुत एतदिति चेत् । यस्माच्चुन्दस्य कर्मकारपुत्रस्य पिण्डपातं परिभुज्य परिनिर्वाणकाल
१२२