________________
अभिसमयानधागलोकः । विहितप्रकारेण तत्कस्य हेतोरित्याशय पूर्ववदाह। अतो हि कौशिकाईत्वमित्यादि (p. 123, 1)। चतुर्थीमाह। पुनरपरं कौशिक यावन्तो जम्बूद्दौपे सत्त्वास्तान् सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा प्रत्येकबुद्धत्वे प्रतिष्ठापयेदित्यादिना। यथोदितविधिना तत्कस्य हेतोरित्याशय तथैवाह। अतो हि कौशिक प्रत्येकबुद्धत्वमित्यादि (p. 126, 8)। पञ्चमौमाह। पुनरपरं कौशिक यावन्तो जम्बूहोपे सत्त्वास्तेषामपि सर्वेषामित्यादिना (p. 128, 16) । उपनामयेदिति दद्यात्। केनाशयेनेत्याह । अत्रैव प्रज्ञापारमितायामित्यादि। प्रयोगमार्गेण प्रज्ञापारमितां भावयन् दर्शनमार्गेण रविं भावनामार्गेण विरूढिं बोधिसत्त्वविशेषमार्गेण विपुलतां गतस्तथागतभूमौ परिपूरयिष्यति (p. 129, 2)। बुद्धधर्मानित्यर्थभेदो वाच्यः । तस्मात् पौर्वकादिति यः कश्चिद्दोधौ चित्तमुत्पादयेत् । यश्चान्यो बोधिचित्तमुत्पाद्य पुस्तकं दद्यात्ततः पुनलद्दयादित्यर्थः। ननु बोधिचित्तोत्यादनपूर्वकं पुस्तकदातुरधिकार्थकारिणः सकाशात् केवलपुस्तकमावदातुः कथं पुण्यमहत्त्वमिति । तत्कस्य हेतोरित्याशयाह। नियतमेष इत्यादि। नियतमवश्यमेषोऽविनिवर्तनीय इत्यर्थः। एतदुक्तम् । “यस्मादवैवर्तिको बोधिसत्त्वो नियतमभिसम्बध्य सत्त्वानां दःखान्तकारित्वेन विशिष्टं पुण्यक्षेत्रमतस्तस्यैव पुस्तकदातुबहुतरं पुण्यं न तु बोधिचित्तोत्पादनपूर्वकमनियतगोत्रपुङ्गलाय पुस्तकदातुरि”ति। षष्ठीमाह । तिष्ठतु खलु पुनः