________________
२२०
पञ्चमपरिवर्तः ।
छापनमनाश्रवे धातौ व्यवस्थापनम् । श्रद्धादिपूर्वकं प्रज्ञापारमितापुस्तकदानं तत्सन्दर्शनादिकञ्च साश्रवं तत् कथं पूर्वकार्यकारिणः सकाशादुत्तरार्थकारिणो बहुतरं पुण्यमिति। तत्कस्य हेतोरित्याशयाह। अतो हि कौशिक श्रोतापत्तिफलमित्यादि (p 114, 13)। एतदक्तम्। यस्मादिपुलविमलानन्तगुणराशितथागतत्वादिसर्वार्यधर्माणां जिनजनन्या हेतुत्वेन सुतरामेव श्रोतापत्तिफलमतः प्रज्ञापारमितातः सम्भवति। तस्मादस्याः पुस्तकदानादिनाविकलकारणस्वभावत्वात् श्रोतआपत्तिफलस्यान्यस्य च प्रतिविशिष्टस्वभावस्य बुद्धत्वादेर्दानाबहुतरं पुण्यं प्रसवति । प्रथमां प्रशंसामात्रामाह। पुनरपरं कौशिक यो हि कश्चिदेव कुलपुत्रो वा कुलदुहिता वा यावन्तो जम्बूद्दौपे सत्त्वास्तान् सर्वान् सकृदागामिफले प्रतिष्ठापयेदित्यादिना (p. 116, 12)। पूर्ववत् तत्कस्य हेतोरित्याशक्य तथैव परिहरन्नाह। अतो हि कौशिक सचदागामौत्यादि (p. 117, 12)। द्वितीयामाह। पुनरपरं कौशिक यो हि कश्चिदेव कुलपुत्रो वा कुलदुहिता वा यावन्तो जम्बूदीपे सत्वास्तान् सर्वाननागामिफले प्रतिष्ठापयेदित्यादिना (p. 119, 9)। पूर्वोक्ताभिप्रायेण तत्कस्य हेतोरित्याशक्य तथैव परिहरन्नाह। अतो हि कौशिक अनागामौत्यादि (p. 120, 7)। तृतीयामाह। पुनरपरं कौशिक यः कश्चिदेव कुलपुत्रो वा कुलदुहिता वा यावन्तो जम्बूद्दौपे सत्वास्तान् सर्वानहत्वे प्रतिष्ठापयेदित्यादिना (p. 122, 3)। यथा