________________
अभिसमयालकारालोकः ।
२१६
स्वभावत्वेनाभावितकायाः। तदेव कथयन्नाह। अभावितशौला इत्यादि। एतच्च पदवयमधिशौलाधिचित्ताधिप्रज्ञाशिक्षाचयवैकल्याद्यथाक्रममुक्तम्। एतत्समर्थनार्थमाह। दुःप्रज्ञा इत्यादि। यस्मादज्ञानयोगेन दःप्रज्ञाः संशयज्ञानादेडमूकजातीया मिथ्याज्ञानात् प्रज्ञापहोणाः । रूपविनाशो रूपानित्यतेति। रूपस्य कल्पितस्याभावो विनाशो रूपानित्यता। विकल्पस्य रूपस्य क्षणादूर्ध्वमनवस्थानं विनाशो रूपानित्यता। धर्मतात्मकस्य च रूपस्य कल्पितरूपरहितता विनाशो रूपानित्यता प्रज्ञापारमिता इत्युपदेक्ष्यन्ति । अर्थवयञ्चैतदारत्तिन्यायेन द्रष्टव्यम् । मिथ्याज्ञानोपहतत्वेनात्मानमुत्कर्षयन्तीत्याह। एवञ्चोपदेक्ष्यन्ति। य एवं गवेषयिष्यति स प्रज्ञापारमितायाचरिष्यतीति । यथोक्तेन च निर्देशेन धर्मधर्मिणोरनिराकरणे विपर्यस्तभावाभिनिवेशान्न मुक्तिरित्यभिप्रायवानाह। न खलु पुनः कौशिक रूपविनाशो रूपानित्यता द्रष्टव्येत्यादि। अपि तु रूपादौनां मायोपमस्वभावतैव प्रज्ञापारमिता। भावाभावादिविपर्यासाभिनिवेशमूलस्य सवासनक्लेशज्ञेयावरणस्य सम्यक् प्रहाणहेतुत्वेन तथागतत्वपदप्रापणात् प्रतिपत्तव्येति मतिः। नवमों स्तोभमात्रामाह । पुनरपरं कौशिक यावन्त इत्यारभ्य यावहङ्गानदीवालुकोपमलोकधातुप्रतिष्ठितसत्त्वधातुस्रोतआपत्तिफलप्रतिष्ठापनकारिणः सकाशाहहुतरपुण्यप्रसवत्वप्रतिपादनेन (p. 115, 12)। ननु स्रोतआपत्तिफले प्रति