________________
२१८
पञ्चमपरिवर्तः। सप्तमौं स्तोभमात्रामाह। पुनरपरं कौशिक य इत्यादिना (p. 116, 12) अष्टमौं स्तोभमात्रामाह। पुनरपरमित्यादिना। अर्थावबोधनिपुणत्वादर्थकुशलः ।
यः प्रतीत्यसमुत्पादः शून्यता सैव ते मता।
धर्मधातुविनिर्मुक्तो यस्माधर्मो न विद्यते ॥ इति वचनात् प्रतीयमानपदार्थ एव हि प्रज्ञापारमिता कस्मादुपदिश्यत इत्यभिप्रायवानाह। इयमपि भगवन् प्रज्ञापारमितोपदेष्टव्येति (p. 112, 11)। पदार्थस्वभावशून्यतानभिज्ञस्य देश्यत इत्याह। इयमपौत्यादि। ननु पदार्थप्रतिपत्तौ तत्र स्वभावशून्यता प्रतिपत्तिः कथमिति। तत्कस्य हेतोरित्याशङ्कयाह । उत्पत्स्यते होत्यादि। एतदक्तम् । “यस्मादनागते काले सादृश्यार्थेन प्रज्ञापारमिता प्रतिवर्णिकोत्पत्स्यतेऽतस्तां श्रुत्वा मिथ्याशास्त्राभ्यासेन प्रच्छादितप्रतीयमानपदार्थमायोपमस्वभावावबोधादनत्तरबोध्यौँ बोधिसत्त्वस्तां सम्यक्प्रज्ञापारमितामनवबुध्यमानोऽभिमतार्थदंशान्मा विनष्टो भविष्यति । तस्माद्देश्यत इति। किं हेतुका किं स्वरूपा च सा येन तहेतुस्वभावपरित्यागात् परिहियत इत्याह । कथमित्यादि। प्रज्ञापारमिता प्रतिवर्णिकेति ।
प्रकान्तार्थतिरस्कारो या चार्थान्तरकल्पना ।
प्रज्ञापारमितायां हि प्रोक्ता सा प्रतिवर्णिका ॥ इत्याचार्यदिनागः। एके भिक्षव। इति (p. 113, 1) महायानिका एव विज्ञानवादिन इत्यर्थः। एकानेकस्वभावविरहान्निःस्वभावत्वेनानभ्यस्तसविषयषविज्ञानकाय