________________
अभिसमयालधाराबोकः ।
२१७
संक्षय इति । समलस्कन्धाभावे धर्मकाय इत्यर्थः । तिष्ठन्तु खस्लु पुनः कौशिक जम्बूद्वीपे सर्वसत्त्वाः। तथा चातुमहादीपके। साहसे चूडिके। हिसाहले मध्यम इति हारकचतुष्टयेन यथासंख्यं चतुर्थों पञ्चमी षष्ठी सप्तमी च स्तुतिमात्रा निर्दिष्टा। किन्तु सर्वत्र समादापयेत् प्रतिष्ठापयेदितिपर्यन्तनिर्दिष्टपदानन्तरं पूर्वोक्तहारकात्तत् किं मन्यस इत्यादि (p. 106, 7) यावद्दहुतरं पुण्यं प्रसवेदित्यनुवर्तनीयम् । अष्टमों स्तुतिमात्रामाह। तिष्ठन्तु खल पुनः कौशिक बिसाहस्रमहासाहस इत्यादिना। अतः खलु पुनरिति दशकुशलसमादापितुः प्रतिष्ठापयितुश्च सकाशादित्यर्थः। नवमों स्तुतिमात्रामाह। पुनरपरं कौशिकेत्यादिना (p. 107, 3)। यावगङ्गानदीवालुकोपमचिसाहस्रमहासाहस्रलोकधातुसत्त्वानाञ्चतुर्थ्यानेषु (p. 108, 13) प्रतिष्ठापयितुरधिकपुण्यप्रतिपादनेन। प्रथमां स्तोभमात्रामाह। पुनरपरं कौशिक यावन्तो जम्बदीप इत्यादिना (p. 109, 9)। चातुर्महाहौपके साहसे दिसाहले त्रिसाहसे च लोकधातौ सर्वसत्त्वान् ध्यानाप्रमाणारूप्यसमापत्त्यभिज्ञासु प्रतिष्ठापयेदिति हारकचतुष्टयेन यथाक्रम द्वितीया तृतीया चतुर्थों पञ्चमी स्तोभमात्रा निर्दिष्टा। सर्वत्र च हारकचतुष्टये प्रतिष्ठापयेदिति पदानन्तरं पूर्वोक्तहारकात्तत् किं मन्यस इत्यारभ्य यावद्भुतकोटिप्रभावनतायामित्ये(p. 112, 3)तत्पर्यन्तमनुवर्तनीयम् । षष्ठौं स्तोभमात्रामाह। तिष्ठन्तु खल्लु पुनः कौशिक घिसाहस्रमहासाइसलोकधातावित्यादिना ।
28