________________
२१६
•~~-~~
-
~
पञ्चमपरिवर्तः। दातुः पूर्वोक्तात्पुद्गलादित्यर्थः। तृतीयामाह। पुनरपरं कौशिक यः कुलपुत्रो वा कुलदुहिता वा ये जम्बूद्वीप इत्यादिना । ग्रहणाय यत्नकरणात् समादापयेत् । गृहौतानां स्थिरीकरणात् प्रतीष्ठापयेत् । अत इत्यस्मादनन्तरार्थकारिणः पुगलात्। अकिलासितयेत्यनालस्येन स्वयं प्रतिपत्त्यनुष्ठानात् सम्यादयेत् । कृतोत्साहत्वादुद्युक्तोऽमुमित्युत्पादितबोधिचित्तं समासतो ग्रन्यार्थशिक्षणाबाहयेदिमां प्रज्ञापारमितामिति पूर्वेण सम्बन्धः। अज्ञानमंशयमिथ्याज्ञानयोगेन मूढं प्रति सम्यगर्थकथनात् सन्दर्शयेत् । कौशौद्याच्छन्दिकताव्यासगयोगात् प्रमत्तं कुशलार्थ प्रवर्तनात् समादापयेत् । होनाधिमुक्त्यशक्तात्मसम्भावनाकौकत्यभौरुतायोगात् संलौनं विशिष्टवीर्यानुशंसकथनात् समुत्तेजयेत्। अविपरीतसमाधिसन्तुष्टिवौर्यप्रतिपत्तियोगात् सम्यक्प्रतिपन्नं भूतगुणाभिनन्दनात् सम्प्रहर्षयेत् । विधेयतापादनादेवं वाचानुशासन्या नेष्यति । प्रज्ञापारमितां प्रापयिष्यति। तत्र च सम्प्रजन्येन सम्यगुपलक्षणतया लयौद्धत्यदोषापनयनाद्यथाक्रमं विनेष्यत्यनुनेष्यति । अर्थमिति (p. 105, 1) फलमनुशंसम् । एवञ्चेत्यनन्तरोक्तक्रमेण । अज्ञानमिथ्याज्ञानविगमाञ्चित्तं विशोधयिष्यति । मंशयज्ञाननिराकरणानिर्विचिकित्सं करिष्यति। एहि त्वमिति आगच्छ त्वम् । बोधिसत्त्वमार्ग इति। प्रज्ञापारमितायाम्। सन्नाहायोगानिवर्तनवौर्यभेदाद्यथाक्रम शिक्षमाणश्चरन व्यायच्छमान इति पदचयमुक्तम् । उपधि