________________
अभिसमयालङ्कारालोकः ।
२१५
यथाधिमोक्षदृष्टधर्मलक्षणां प्रज्ञापारमितां प्रति प्ररत्तस्याधिमोक्षमनस्कारस्य प्रथमदित्रिनवावस्थानां भावकबोधिसत्त्वस्य यथाक्रममुत्साहनाय प्रत्येकं नवभिः प्रकारैरुत्तरोत्तराभिनन्दनं स्तुतिः स्तोभः प्रशंसा च बुद्धादिभिः क्रियत इत्यधिमोक्षमनस्कारानन्तरं प्रथमं स्तुतिमात्रां निर्दिशन्नाह। अथ खलु शक इत्यादि (p. 102, 2) । त्यक्तमुक्ताशयेनाप्रत्याख्यानादपरित्यजनौया। बाह्योदकाधुपद्रवनिराकरणाद्रक्षितव्या। आध्यात्मिकाक्षरादिभ्रंशदोषापनयनाहोपायितव्या। अधिमुञ्चेदित्यपरित्यागबुड्या स्वीकुर्यात् । आर्थिकयेति प्रयोगतः। छन्दिकायेति आशयतः। दद्यादिति ग्रन्थार्थस्वभावायाः फलेन सह सर्वस्वदानात् । एतदेव प्रयोगमौलपृष्ठावस्थाभेदेन यथाक्रमं दर्शयन्नाह। उपनामयेत् । निर्यातयेत्परित्यजेदिति । देयदायकप्रतिग्राहकानुपलब्धिभेदादा पदचयमुक्तम् । तबचनेन प्रतिपादयितुमाह । तेन होत्यादि (p. 103, 4) शरीरमिति प्रतिमादिकम् । तावत्कालिकत्वेन दानात् संविभजेत् । अयमेव तयोरिति (p. 104, 5) । कृपापूर्वक दानाशयस्याधिक्येन तयोर्मध्ये सत्कारादिपुरःसरं तथागतशरीरं यो दद्यात् सोऽयमेवेत्यर्थः। तद्दचनेनेदानों परिहरन्नाह। एवमेव कौशिकेत्यादि। द्वितीयामाह । पुनरपरं कौशिको यः कुलपुत्रो वा कुलदुहिता वा यत्र यत्रेत्यादिना। पटुतरश्रद्धेन्द्रियादियोगेन पाचौभूतत्वादाजनीभूता यत्र मगधादौ देशे स्थिताः। तत इत्यगत्वा