________________
२१४
चतुर्थपरिवर्तः। मृद्दी मध्याधिमात्रा च मृदमृद्दादिभेदतः ।
सा पुनस्त्रिविधेत्येवं सप्तविंशतिधा मता ॥१६॥ इति यथोक्तेन च ग्रन्थप्रभानेन क्रमादुत्तरोत्तराधिकानुशंसाप्रतिपादनपरेणान्यापदेशेन सर्व एवायमधिमुक्तिमनस्कारः परिदौपितः। सर्व एव स्वार्थाद्यधिमुक्तिप्रकारे मृदमृदादौ प्रतिपक्षात्मके ऽधिमात्रादिर्विपक्षोऽनिर्दिष्टः । स्वार्थाधिमुक्तावद्दिष्टः परार्थो भवति। द्वितीयायां सान्तरः प्रयोगस्ततौयायान्निरन्तरोऽवगन्तव्यः। अन्यथाऽनुशंसकथनमात्रेभ्युपगम्यमाने यावाननुशंसः सम्भवति तावतः सहदेवाभिधानावन्यप्रभानस्य निरर्थकता स्यादिति पूर्वाचार्याः ।
अभिसमयालङ्कारालोकायां प्रज्ञापारमिताव्याख्यायां
गुणपरिकौर्तनपरिवर्तो नाम चतुर्थः ॥