________________
अभिसमयालदारालोकः ।
२१३
दानं ददत इत्यादि (p. 101, 2)। विपश्यत इति भावयतः। उपचयार्थमाह । न च कौशिकासामित्यादि। प्रज्ञापारमितापरिणामितानामिति। त्रिमण्डलविशुद्ध्या परिभावितानाम्। सर्वज्ञतापरिणामितानामिति। तथागतत्वे निर्यातितानाम् । अपारमिताव्यवच्छेदात्यारमितारूपेण विशेषो न चेति पूर्वेण सम्बन्धः । पारमिताशब्दवाच्यतया न च नानाकरणम् । नौलपीतादिभेदान्नानावर्णाः समविषमरूपेण नानासंस्थानाः । नानारोहपरिणाहसम्पन्ना इति। आरोहो दैर्घ्यम् । पारिणाहः पारिमाण्डल्यम् । अतद्रूपपराहत्त्या न च छायाविशेषस्तथैवैकशब्दवाच्यत्वान्न च नानाकरणम् । तदेवाह। अपि तु छायेत्यादि। संख्यामिति व्यपदेशं । एवं त्रिविधाधिमुक्तिमनस्काराणां प्रत्येकं मृदुमृद्दादिनवप्रकारान् प्रतिपाद्योपसंहरन्नाह। महागुणेत्यादि। बढनुशंसस्वार्थाधिमुक्तनिष्यादनान्महागुणसमन्वागता। संख्याप्रमाणाविषयस्वपराधिमुक्तियोगादप्रमेयगुणसमन्वागता। अपर्यन्तसत्त्वधातूद्देशपराधिमुक्तिसद्भावादपर्यन्तगुणसमन्वागता। एतावत्येव स्वपरोभयार्थभेदेन प्रत्येकं नवप्रकारत्वेनाधिमुक्तिः सप्तविंशतिप्रकारैवेति न विप्रतिपत्तिः कार्या । तथा चोक्तम् ।
अधिमुक्तिस्त्रिधा ज्ञेया स्वार्था च स्वपरार्थिका । परार्थिकैवेत्येषा च प्रत्येकं त्रिविधेष्यते ॥ १८ ॥