________________
२१२
चतुर्थपरिवर्तः। कायेन बोधिसत्वार्थसन्धारणाभियन्ते। निर्माणकायेन कतिपयदिनावस्थानाद्यापयन्ति । प्रज्ञापारमितायाञ्चरितव्यमित्यादि। प्रयोगाद्यवस्थाभेदादुक्तम् । पूर्ववत् स्वहस्तमेवमेतत् कौशिकैवमेतदिति दत्त्वा मातुर्माहात्यमावेदयन्नाह। येऽपि ते कौशिकेत्यादि (p. 100, 2) । नवममधिमात्राधिमात्रं कथयन्नाह। महापारमितेयं भगवन्नित्यादि। महत्तामेव समर्थयन्नाह । सर्वसत्त्वानां होत्यादि। एतदुक्तम् । “ यस्मान्मातुः प्रभावेन भगवान् प्रयोगावस्थायां सर्वसत्त्वानां चित्तानुष्ठानानि प्रजानाति पृष्ठावस्थायां संपश्यति, तस्मान्महत्त्वमस्या" इति। एतदेव समर्थयन्नाह। तथाहि कौशिकेत्यादि। दीर्घरात्रमिति दौर्घकालम्। प्रज्ञापारमितायां चरतीति वचनादन्यव्यवच्छेद इत्यभिप्रायवानाह। किम्भगवन्नित्यादि। नान्यास्विति दानाद्यात्मिकासु । सर्ववेत्याह । सर्वास्वित्यादि।
दानं निष्प्रतिकांक्षस्य निस्पृहस्य पुनर्भवे। शौलं क्षान्तिश्च सर्वत्र वौर्यं सर्वशुभोदये ॥ विनाऽरूप्यं तथा ध्यानं प्रज्ञा चोपायसंहिता।
सम्यक्प्रयोगो धौराणां पदसु पारमितासु हि ॥ इति वचनादनेन सम्यक्प्रयोगेण सर्वावेव बोधिसत्त्वश्चरतीत्यर्थः । प्रज्ञापारमितावचनं किमर्थमित्याह । अपि तु खल्वित्यादि। यथा च पूर्वङ्गमा भवति तथा प्रागावेदितम् । एतदेव कथयन्नाह । बोधिसत्त्वस्य महासत्त्वस्य