________________
बभिसमयानधारालोकः ।
२११ प्रज्ञापारमिताहेतुत्वेन पूजां दर्शयन्नाह । यथा च भगवन्नित्यादि। बुद्धानां धर्मदेशनेति। यस्मादिकल्पस्य स्वाकारं बाह्यरूपेणाध्यारोप्य प्रवर्तनादतस्मिंस्तवहेण स्वयमविद्यास्वभावस्य सद्भावेऽशेषावरणप्रहाणं न सम्भवति, तस्मान्नित्यसमाहितानामेव बुद्धानां भगवतां प्रज्ञापारमिताज्ञानप्रभावतो यथाधिमुक्तिभव्यानामसंकीर्णदेशनानिर्भासाः स्वज्ञानप्रत्ययाः समुपजायन्त इत्येवंविधप्रत्ययानुसारेण तेषां देशना भगवतां व्यवस्थापिता। अतः शुद्धलौकिकज्ञानसम्मुखीभावो मुनिनैवं प्रकाशित इत्यादिविनेयजनहिताध्यवसायेन क्वचित्मगौतिकर्तृभिरुक्तः। तस्मादिनेयशब्दज्ञाननिर्भासरूपत्वेन श्रोजनसम्बन्धिन्यपि देशना। यथा प्रज्ञापारमिताज्ञानाधिपत्यनिर्जातत्वाइद्धानां धर्मदेशनेतिकृत्वा पूज्या, तथेदानीन्तनानामपि धर्मभाणकानां देशना भगवतः परस्परावलायातत्वेन प्रज्ञापारमिताज्ञानाधिपत्यनिर्जातत्वात् पूज्येत्यर्थः । षष्ठं मध्याधिमाचं निर्दिशन्नाह । यथा भगवान् राजपुरुष इत्यादि। अकुतोभय (p. 99, 1) इति। न कुतश्चिद्भयमस्यास्तौति तथोक्तः। धर्मकायानुभावादिति। धर्मधातुनिष्यन्दप्रज्ञापारमितानुभावादित्यर्थः । सप्तममधिमात्रमृदं वक्तुमाह। तिष्ठतु त्रिसाहस्रमहासाहस्रो लोकधातुरित्यादि। अष्टममधिमात्रमध्यं निर्दिशन्नाह । पुनरपरं भगवन् ये प्रमेष्वित्यादि। स्वपरीभयार्थसम्पज्दाद्यथाक्रमं तिष्ठन्तीत्यादिपदत्रयं वाच्यम् । अथवा धर्मकायेनासंसारमवस्थानात्तिष्ठन्ति। सम्भोग