________________
२१०
चतुर्थपरिवर्तः । मूल्याहम् । एभिरेवंरूपैरिति। वक्ष्यमाणैरेवस्वभावैः । धम्यमान इत्यापूर्यमाणे। निगृह्रौयादिति मन्दतामापादयेत्। न विवर्धयेदिति वृद्धिं न कुर्यात्। उपशमयेदिति समूलमपनयेत्। दह्यमान इति तप्यमाने । परिप्ड्य इति व्याप्ते। बाध्यमान इति पौद्यमाने। अन्धकारतमिस्रायामिति । अन्धकारगह्वरायाम् । अन्तरीक्षधारणात् । स्थापितमिति भूमिस्थापनात्। मन्दतापादनात्यतिहन्येत। सर्वथापनयनादिगच्छेत्। एभिश्चान्यश्चेत्यादि (p. 97, 8)। एतैरनन्तरोक्तैरन्यैरेवंवक्ष्यमाणैर्युक्तमित्यर्थः। अभिवर्धमानपिटकमबंद। उपघातस्तिमिरम् । शूलाद्यक्षिरोगः। घनता पटलम् । समुदाचरद्रपबौजावस्थाविगमाद्यथाक्रमं निर्घातं प्रशमं गच्छेयुरिति योज्यम् । कस्तस्य स्वको वर्ण इत्याह। सचेत् पाण्डरेणेत्यादि (p. 97, 13)। अन्येषामिति हरितशवलादीनाम् । समस्तं वस्त्रेण परिवेष्टयित्वा तदेकदेशेन वा बद्धेति ज्ञेयम् । परिवेष्टयित्वेत्यस्य सुव्वान्तप्रयोगेण नापशब्दता। रजोबहुलता कलुषभावस्तमपि प्रसादयेदधो नयेत्। जम्बूद्दीपे महेशाख्यशुद्धोदनस्यापोदृशरत्नासंभवादृष्टान्तासिद्धिरिति कस्यचिदभिप्रायनिराकरणायाह। किं पुनः कौशिकेत्यादि (p. 98, 1)। प्रतिविशिष्टपुण्यत्वादाह। देवेधित्यादि। संख्याप्रभावाभ्यां यथाक्रममल्पानि परित्तानौति दयमुक्तम्। तैर्मणिरत्नगुणैरित्यत्र परिभावितत्वादिति शेषः। परिनिदृतस्यापोति। अपिशब्दात्तिष्ठतः। प्रकारान्तरेणापि