________________
अभिसमयालाराणोकः । आहारिकेत्युत्पादिका। स्थितिहेतुत्वेन तथागतशरीरमेव बुद्धत्वोत्पादकमिति कस्यचिदाशङ्कायामाह । सर्वज्ञतायाश्चेत्यादि। इदमुक्तं भवति । सर्वज्ञतापरिग्रहादेव तथागतशरीराणौत्युच्यन्ते। अतो न तान्यपूर्वसर्वज्ञतोत्पत्ति हेतुप्रत्ययभूतानि किन्तु निष्यत्तरुत्तरकालं स्थितिहेतुत्वेनाश्रयभूतानीति। सर्वज्ञज्ञानहेतुकेति। तथागतज्ञानहेतुका प्रज्ञापारमिता पूज्येति शेषः। उपसंहारार्थमाह। तस्मात्तर्हि भगवन्ननयोरित्यादि। चतुर्थं मध्यमृदं वक्तुमाह। तिष्ठन्तु खलु भगवन् जम्बूदीप इत्यादि। अपि तु खल पुनरित्यादिकारणवचनं गतार्थमपि प्रसङ्गान्तरेणोक्तत्वान्न पुनरुक्तम्। प्रज्ञापारमिताप्रभावित्वमेवाह। तथागतशरीराणि होत्यादिना। तस्मात्तहाँत्याद्युपसंहारः। पञ्चमं मध्यमध्यार्थमाह । अपि तु खलु पुनर्भगवन्नित इत्यादि। इतो विपर्यासरहितायाः प्रज्ञापारमितायाः श्रवणादिक्रमेणोत्यादात्पूजार्हाणि शरीराणौत्यर्थः । तदुत्पत्त्यापि कस्मात् पूजां लभन्त इत्याह । यदुत प्रज्ञापारमितापरिभावितत्वादिति। सुविशुद्धात् कारणात् समुत्पन्नं फलं सुविशुद्धमेवोपजायत इति कृत्वा । यस्मात् प्रज्ञापारमितया महानुभावत्वोत्यादनेन परिभावितास्तथागताः सर्वथा वासितास्तस्मात्तदुत्पत्त्या पूजां लभन्त इति । एतदेव दृष्टान्तेन स्फुटौकुर्वन्नाह । तद्यथापि नाम भगवन्ननमित्यादि (p. 96, 12)। तचानघु प्रणीतत्वेना
27