________________
चतुर्थ परिवर्तः ।
बहुशो बहुधोपायं कालेन बहुनाऽनभ्यस्तमहायानस्वरूपेणाप्यादिकर्मिकेण सता क्षिप्रं ताथागतौमवस्थामवाप्तुमिच्छता तथागताधिपत्यभाविनि स्वज्ञानप्रतिबिम्बके रूपकायतथागते जगद्गुरावभिनिवेशयोगेन प्रतिपत्तिसारा श्रद्धा विधेयेति। तदेव कथयन्नाह । न खलु पुनर्मे भगवन् इत्यादि । तृतौयं मृधिमात्रमधिकृत्याह । अपि तु खलु भगवन्नित इत्यादि । अपितुशब्दो निपातो यस्मादर्थे वर्तते । ननु भेदे सति कथं मातुः पूजया तथागतपूजेति । तत्कस्य हेतोरित्याशङ्क्याह । प्रज्ञापारमितानिर्जातत्वातथागतशरौराणामिति। इदमत्रार्थतत्त्वम् । यस्मादौदृशाः सर्वलेाकाभ्युद्गतमूर्तयो बुडा भगवन्तः प्रज्ञापारमितातो निष्पद्यन्ते । तस्मान्महानुभावतया पूज्येयमिति तथागतोत्पत्तिसम्बन्धेनास्याः पूजाया भेदेऽपि तथागताः पूजिता इति । यदाश्रयेण यत्पूज्यं भवति तत्पूजायां तदेव पूजितं भवति इत्येतदेव दृष्टान्तपूर्वकं स्पष्टयन्नाह । तद्यथापि नाम भगवन् सुधर्मायामित्यादि । सुधर्मा नाम देवसभा सुमेरुस्थितसुदर्शननगरस्य बहिरेव दक्षिणपश्चिमे स्थिता । यस्यां निषद्य देवाः कृत्याकृत्यं चिन्तयन्ति । कथं पुनरन्यस्य गौरवेणान्यत्र नमस्कारादिकमिति । तत्कस्य हेतोरित्याशङ्क्याह । इह हि किलासन इत्यादि (p. 95, 4)। किलशब्दोऽनुस्मरणे । तत्सम्बन्धादासनपूजायां शक्रोऽपि पूजित इति मतिः । महेशाख्य हेतुप्रत्ययभूतेति । महेशाख्या चासौ महानुभावसंज्ञकत्वेन हेतुप्रत्ययभूता च यथाक्रममुपादानसहकारिकारणभेदादिति
तथोक्ता ।
२०८