________________
व्यभिसमयालङ्कारालोकः ।
२०७
ज्ञानभावनापरिनिष्यत्त्या निष्यन्नश्चैष तथागतकाय " इति स्वभावहेतुः । अर्थस्यात्यन्तपरोक्षत्वेन साकारज्ञानादिभिश्च ग्रहीतुमशक्यत्वादद्वयं ज्ञानं स्वसंवेदनप्रत्यक्षसिद्धं स्वप्नादिप्रत्ययवदर्थाकारोपरक्तं भावनौयमिति स्थितम् । तस्याप्युदितविधिनैकानेकस्वभावविरहात्तत्त्वतो निःस्वभावत्वेन मायोपमत्वं निश्चितम् । अतोऽस्य मनसो भावनाबलात् स्फुटप्रतिभासित्वं यत्तदेव तथागतत्वमिति नासिडो हेतुः । सपक्षे भावान्न विरुद्ध इत्यभ्युपगत पूर्वबुद्धधर्मकायं प्रत्येष दृष्टान्तोऽन्यस्य पुनर्धर्मकायत्वाभावे प्रमाणाबाधितयथोक्तज्ञानभावनापरिनिष्पत्त्या निष्पन्नत्वविरहाच्चक्रवर्त्यादिवद्विपर्यासप्रसङ्गः । अविपर्यस्तश्चेष्यते तथागत इति विपर्यये बाधकं प्रमाणम् । परमाणूनामयोगान्नानैकान्तिकता च हेतोः ः । तस्माल्लक्षण व्यञ्जनोज्ज्वला योऽयं रूपकायस्तथागतो भव्य सत्त्वैः समौक्ष्यते नासौ तात्त्विको धर्मकायः शास्ता किन्तु परमविमलानन्तगुण राशिधर्मकायाधिपत्यादेव तेषां स्वज्ञानं तथाभूतरूपकायाकारेण प्रतिभासते । येन ते ऽविदितस्वज्ञानतथागत प्रतिभासरूपा बाह्योऽयं भगवानिति शास्तृबुड्या विकल्पयन्तो दर्शनवन्दनादिभिरभ्युदयनिःश्रेयसभाजो भवन्ति क्रमेण । मिथ्याप्रतिभासिनोऽपि हि विकल्पस्य पारम्पर्येण हितहेतुत्वं दृष्टमेवानित्यत्वादिविकल्पवद्दस्तु सम्बन्धान्न तु क्षिप्रम् । यस्माद्यावद्भावाभिनिवेशेन ज्ञेये विज्ञानं समुपजायते तावदतस्मिंस्तग्रहात्रान्तमेव तद्विज्ञानं तत्त्वदर्शनाहूरौभवति । तस्माद्यथा मायाकारो भाववत्प्रतिभासमानेष्वपि हस्त्यादिषु स्वनिर्मितेषु भावरूपतया सत्या एत इति नाभिनिविशते । तथा