________________
२०६
चतुथपारवतः।
ज्ञानान्तरेण सिद्धिकल्पना युक्ता। निराकारेण साकारेण वा परिच्छेदायोगात्। परिच्छेदे वाऽर्थान्तरं ज्ञानस्य विषयः प्राप्नोति । स च नेष्टो भवद्भिाह्यत्वानुपपत्तेः । न च तेनैव ज्ञानदयेनानन्तर्यनियमः परिच्छिद्यते। हयोरपि तयोनिरुवत्वात्। स्यादेतत्स्वसंवेदनादेव पूर्वके ज्ञाने गृह्यमाणे कार्य प्रत्यानन्तर्य कारणात्मकं गृहीतं तथोत्तरस्मिबपि ज्ञाने गृह्यमाणे कार्यात्मकं गृहौतमेवानन्तर्य कार्यकारणात्मकस्यानन्तर्यस्य तदभिन्नस्वभावत्वादिति। नैतदेवम् । यस्माज्जन्यजनकभावसम्बन्धोल्लेखेन वस्तुहयग्रहणाकार्यकारणभावो विनिश्चितो न त्वानन्तर्यमावग्रहणात् । इतरथाहि घटग्रहणानन्तरं घटग्रहणे सति तगतानन्तर्यमात्रपरिच्छेदात्कार्यकारणभावः स्यात् । न च स्वसंवेदनस्याविकल्पकत्वेन पूर्वापरीभूतवस्तुसम्बन्धोल्लेखेन ग्रहणमस्ति। तस्मादिदमस्मादनन्तरम्भवतीति परिच्छेदाभावे कार्यकारणभावो निश्चितो न युक्तोऽतिप्रसङ्गात्। अस्मादनन्तरमिदं भवतीति विकल्पोऽपि नोपपद्यते । अनुभवनिश्चयाभावात्क्षणिकत्वादिविकल्पवदिति। मा खल पुनरिमं लक्षणव्यञ्जनोज्ज्वलं शोभनं कायं सत्कायं हे भिक्षवः परमाणसञ्चयस्वभावं मन्यध्वमिति साध्यधर्मः कथितः । धर्मकायपरिनिष्पत्तितो मायोपमादयसाक्षाक्रियानिष्पत्त्या निष्यन्नं मां द्रक्ष्यथेत्यनेन हेतुरुक्तः। एष च तथागतकायो भूतकोटिप्रभावितो धर्मकायपरिनिष्यत्त्या निष्यन्नो यदत प्रज्ञापारमितातत्स्वभाव इत्यनेन पक्षधर्मोपसंहारः कृतः । एतदुक्तम् । “यो मायोपमाइयज्ञानभावनापरिनिष्यत्त्या निष्यन्नः स धर्मकायस्तद्यथा पूर्वबुद्धा भगवन्तः । यथोक्त