________________
व्यभिसमयालङ्कारालोकः ।
द्वितीयं मृदुमध्यमधिकृत्याह । स चेत् कौशिकायं ते जम्बूद्दौप इत्यादि (p. 94. 2 ) । सर्वभूभागव्यापनात्परिपूर्णः शिखापर्यन्तकरणाच्चूडिकाबद्धः । तथागतशरौराणामिति । कर्तरि षष्ठौ तैरित्यर्थः । प्रवार्यमाण इति । यमिच्छसि तं भागं गृहाणेत्यभिधीयमानः । कस्माद्विशिष्टं रूपकायं तथागतं परित्यज्य प्रज्ञापारमितापरिग्रह इति । तत्कस्य हेतोरित्याशङ्कयाह । यथापि नामेत्यादि । यस्मात्तथागतनेत्र्यां प्रज्ञापारमितायां चिचौकारो भक्तिविशेषो विद्यते । नेमामेव परिगृह्णीयामिति पूर्वेण सम्बन्धः । चिचौकार एवास्यां कुत इत्याह । एतौत्यादि । यस्मादेतद्भूतार्थिकं पारमार्थिकं शरीरं धर्मकायस्तस्य मुख्यतो द्योतनात्प्रज्ञापारमिता तथोक्ता । तस्मादचैव चित्रकार इति मतिः । भृतार्थिकत्वमेव धर्मकायस्य कुतो यस्य द्योतनात्प्रज्ञापारमितायां चिचौकार इति । तत्कस्य हेतोरित्याशङ्कयाह । उक्तं ह्येतद्भगवतेत्यादि । यस्मादुक्तं प्रदेशान्तरे भगवता धर्मकाया मायोपमाद्दयज्ञानस्वभावाः प्रज्ञापारमितात्मका बुडा भगवन्त इत्यनेन दृष्टान्तो निर्दिष्टः । अथ मतं स्वसंवेदनतः पूर्वक्षणभाविज्ञानमात्मानं परिच्छिनत्त्येवमुत्तरक्षणभाव्यपि । तदिदमस्मादनन्तरमित्यवेत्य कारणमिदं कार्यमित्यवगच्छति । अन्यथानन्तर्यनियमो न घटते घटमानो वाऽतिप्रसङ्गदोषं विदध्यादतः कार्यकारणभावरूपेण निश्चितत्वात्कथं मायोपमाद्दयज्ञानात्मका बुडा भगवन्त इति । तदयुक्तमिदमस्मादनन्तरमिति यतो न स्वसंवेदनात् सिध्यति । तस्या विकल्पितविषयत्वान्नापि
२०५